________________
नन्दीहारिभद्रीय
मल्लकदृष्टान्तः
वृत्ती
AAAAAA
वग्रहस्य, अत्रार्थावग्रहात् पूर्वः सर्वो व्यंजनावग्रह इति, ततो ईहं पविसतीत्यादि सुगमं यावत् संखेज्जं वा असंखेज्जं वा कालंति । अत्राह-सुप्तमंगीकृत्य युज्यते अयं न्यायः, जाग्रतस्तु शब्दश्रवणसमनन्तरमेव अवग्रहहाव्यतिरेकेणैवापायज्ञानमुत्पद्यते, तथोपलम्भात् , न चैतदनार्ष, यत आह सूत्रकारः-से जहाणामए' इत्यादि, अथवा यदुक्तं न पुनरेवं जानाति क एष शब्दादि, किं तर्हि ?, नामजात्यादिकल्पनारहितं गृहातीत्येतदयुक्तं, यत एवमागमः 'से' इत्यादि, अथवा सुप्तप्रतिबोधकमल्लकदृष्टान्ताभ्यां
व्यंजनार्थावग्रहयोः सामान्येन स्वरूपमभिधाय अधुना मल्लकदृष्टान्तेनैव प्रतिपादयन्नाह-'से जहा' इत्यादि, तद्यथा नाम कश्चित् ला पुरुषः अव्यक्तं शब्द शृणुयात् , अव्यक्तमित्यनिर्देश्यस्वरूपं नामादिकल्पनारहितमित्यनेनावग्रहमाह, तस्य च श्रोत्रेन्द्रियसम्ब
न्धिनो व्यंजनावग्रहपूर्वकत्वात् व्यंजनावग्रहं च, आह-न छत्रैवं क्रम उपलभ्यते, किंत्वक्षेपेण शब्दापायज्ञानमेव वेद्यते, सूत्रेऽव्यक्तमिति शब्दविशेषणं कृतमतोऽव्यक्तं सन्दिग्धं पुरुषादिशब्दभेदेन शब्दं शृणुयादिति न्याय्यं, तथा चोत्तरसूत्रमप्येतदेवाह-'तेणं सद्देत्ति उग्गहिते तेन-श्रोत्रा शब्द इत्यवगृहीतं 'णो चेवणं जाणति के वेस सद्दादि' न पुनरेवं जानाति-क एष पुरुषादि
समुत्थानामन्यतमः शब्द इति, आदिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, 'ततो ईह पविसती' त्याद्यपि संबद्धमिति, ५. नैतदेवम् , उत्पलपत्रशतव्यतिभेददृष्टान्तेन कालभेदस्य दुर्लक्षत्वाद् अक्षेपेण शब्दापायज्ञानानुपपत्तेः, यच्च तेन शब्द इत्यवगृहीत| मित्युक्तम् अत्र शन्द इति भणति वक्ता-सूत्रकार, इतिकरणनिर्देशात् , शब्दमात्र वा शषविशेषविमुखं, न तु शब्दबुध्ध्या, तस्यैवापायप्रसंगाद् , अवग्रहादिश्रुतव्यतिरेकेण च मतिज्ञानानुत्पत्तेः, तथा चाह-'णो चेव ण' मित्यादि, न पुनरेवं जानाति क एष शब्दादिरर्थः, सामान्यमात्रप्रतिभासनाद् , आह च भाष्यकारः-"अव्वत्तमणिद्देस सरूवणामादिकप्पणारहितं । जदि एवं जं तेणं |
'शब्दं शृणात्विक्षेपेण शमाह, तस्य च
R-555
॥६९॥