________________
नन्दीहारिभद्रीय वृत्तौ
॥ ६८ ॥
गच्छन्त्येव, 'असंखेज्ज' इत्यादि, प्रतिसमयप्रवेशेनादित आरम्य असंख्येयसमयैः प्रविष्टैरसंख्येय समयप्रविष्टाः, न पुनर्विंशत्या - होभिः पथिकगृहप्रवेशबदपान्तरालागमनसमयापेक्षया संख्येयसमयप्रविष्टा इति, पुद्गलाः- शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति, अर्थावग्रहज्ञानहेतवो भवन्तीति भावः, इह च चरमसमयप्रविष्टा एव ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमकारिण इत्योघतो ग्रहणमुक्तमिति, असंख्येयमानं चात्र जघन्यमावलिकासंख्येयभागसमयतुल्यं, उत्कृष्टं तु संख्येयावलिकासमयतुल्यं, तच्च प्राणापानपृथक्त्वकालसमयमिति, उक्तंच - "वंजणवग्गहकालो आवलियाऽसंखभागमेत्तो उ । थोवो उक्कोसो पुण आणापाणूपुहुति ॥ १ ॥” 'से तं' इत्यादि निगमनम् ।। सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणेति वाक्यशेषः ॥
'से किं त'मित्यादि, अथ कोऽयं मल्लकदृष्टान्तो, २ नाम तद्यथा नाम कश्चित् पुरुष आपाकशिरसः, आपाकः प्रतीतः तच्छिरसच मल्लकं शरावं गृहीत्वा, इदं रूक्षं भवति इत्यतोऽस्य ग्रहणमिति, तत्र मल्लके एकं उदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन इत्यर्थः, शेषं सुगमं यावत् जपणं तं मल्लकं रावेहित्ति आर्द्रतां नेष्यति, शेषं सुगमं यावत् एवमेवेत्यादि, अतिबहुत्वात् प्रतिसमयमनन्तैः पुद्गलैः-शब्द पुद्गलैः यदा तद् व्यंजनं पूरितं भवति तदा हुमिति करोति, तमर्थ गृह्णातीत्युक्तं भवति, अत्र व्यंजनशब्देन त्रयमभिगृह्यते - द्रव्यमिन्द्रियं सम्बन्धो वा यदा द्रव्यं व्यंजनमधिक्रियते तदा पूरितमिति प्रभृतीकृतं, स्वप्रमाणमानीतं, स्वविषयव्यक्तौ समर्थीकृतमित्यर्थः, यदा व्यंजनमिन्द्रियं तदा पूरितमित्याभृतं भृतं व्याप्तमित्यर्थः, यदा तु द्वयोरपि सम्बन्धोऽधिक्रियते तदा पूरितमित्यंगांगीभावमानीतमनुषक्तमित्यर्थः, एवं यदा पूरितं भवति तदानीं तमर्थ गृह्णाति, किंविशिष्टं ? - मामजात्यादिकल्पनारहितं तथा चाह- णो चेव णं जाणइ के वेस सद्दादित्ति, न पुनरेवं जानाति क एष शब्दादिरर्थ इति, एकसामयिकत्वादर्था
मल्लकदृष्टान्तः
112 11