SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ नन्दी वृत्ती ॥६५॥ 44ESCIENCCC से 'तंजहा-ओगिण्हणते त्यादि, अवगृह्यतेऽनेनेति अवग्रहणं, करणे ल्युट्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिद्रव्यादानप-8 ईहापाय|रिणाम इत्यर्थस्तद्भावः अवग्रहणता, धार्यतेऽनेनेति धारणं उप-सामीप्येन धारणं उपधारण व्यञ्जनावग्रहाद्धाया आ(व्या)दिसमये- पर्याया: | प्ववसानान्तं प्रतिसमयमेव शब्दादिद्रव्यादानधारणपरिणाम इति भावना, तद्भाव उपधारणता, श्रूयतेऽनेनेति श्रवणं एकसामा-14 |यिकसामान्यार्थावग्रहावबोधपरिणाम इत्युक्तं भवति तद्भावः श्रवणता, अवलम्बत इत्यवलम्बनं, 'कृत्यल्युटो बहुल' मिति वचनात् । कर्मणि ल्युट्. तद्भावः अवलम्बनता -विशेषसामान्यार्थावग्रह इवि भावार्थः, तथा हि उत्तरोत्तरधर्मजिज्ञासायां सत्यां शब्दादिज्ञानमेवावलम्ब्यहादयः प्रवर्त्तन्ते-किमयं शांखः किं वा शाङ्ग इत्यतस्तदनन्तरमेवेहादिप्रवृत्तेर्विशेषसामान्यार्थावग्रहोऽवलम्बन मिति, | एवमुत्तरोत्तरधर्मजिज्ञासायां सत्यां विशेषसामान्यार्थावग्रहेषु मर्यादया धावता. मेधोच्यते, यावदधिगच्छति, यथा-शांखः स किं मन्द्रः किं वा तार इत्यादि, यत्र व्यञ्जनावग्रहो नास्ति तत्राद्यभेदद्वयाभाव इति । 'से तं उग्गहें' सोऽयमवग्रहः । .. 'से किं त' मित्यादि, सूत्रम् ॥ ३२-१७५)॥ निगदसिद्धं यावत् आभोगनता ईहा, अर्थावग्रहसमयसमनन्तरमेव सद्भुतार्थविशेषाभिमुखमालोचनमाभोगनमुच्यते तद्भाव आभोगनता, मृग्यतेऽनेन परिणामकरणेनेति मार्गणं, सद्भूतार्थविशेषामिमुखमेव | तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणमिति हृदयं, तद्भावो मार्गणता, एवमन्विष्यतेऽनेनेति गवेषणं. तत ऊर्ध्वं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माध्यासेनालोचनमिति गर्भः, तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिन्तनं चिन्ता, विमर्षणं विमर्षः-क्षयोपशमविशेषादेवोवं स्पष्टतरावबोधतः सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्यानित्यादिद्रव्यभावालोचनमित्यन्ये । 'से तं ईहा'। RE-05-16448
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy