________________
नन्दीसे किं तमित्यादि (२९-१६२ । अथ कोऽयं व्यञ्जनावग्रहः इत्यत्र पुनरुत्पत्तिक्रम एवाश्रितो यथासम्भवमिति |
अवग्रहे
कार्थता हारमद्रायात सुश्लिष्टमेतदिति, प्रकृतमुच्यते-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रह इत्यादि सूत्रसिद्ध। आह-पञ्चेन्द्रिय
मनःसद्भावे सति किमित्ययं चतुर्विध इति ?, अत्रोच्यते, नयनमनसोरप्राप्तकारित्वाद्,अप्राप्तकारित्वं च विषयकतानुग्रहोपघातशून्य॥६४॥ |त्वात्, प्राप्तकारित्वे पुनरनलजलशूलाघालोकने दहनक्लेदनपाटनादयः स्युः, अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नालम्बत
इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ भास्करकिरणादिनेति, अन्यस्त्वाह-व्यवहितार्थानुपलब्धरनुमानात् प्राप्तकारित्वं लोचनस्पति, एतदयुक्तं, नैकान्तिकत्वाद्, रुचोऽभ्रपटलस्फटिकान्तरितोपलब्धेः, स्यादेतत्-नायना रश्मयो निर्गत्य । तमथं गृह्णन्तीति दर्शने रश्मीना तैजसत्वात्, तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तं, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरमयाद्मानकामात्रमेतदिति ।
'से किं तमित्यादि ॥*३०-१७३॥ अथ कोऽयमर्थावग्रहः, अर्थावग्रहः पविधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रजह इत्यादि सूत्रसिद्धं यावत् । ।
'तस्स णं इमे' इत्यादि । * ३१-१७४ ॥ तस्यावग्रहस्यामूनि, णं पूर्ववत् , अवग्रहसामान्यापेक्षयकार्थिकानि नानाघो-14 पाणि-नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति, घोषा उदात्तादयः कादीनि व्यञ्जनानि, नामैव नामधेयं, अवग्रहविशेषापेक्षया सातु कथंचिद् भिन्नार्थानि, त्रिविधश्चावग्रहः-सामान्यावग्रहो विशेषावग्रहः विशेषसामान्यार्थावग्रहश्चेति, तत्र भिनार्थता निदर्श्यते
sexxxxkkkkk