________________
नन्दीहारिभद्रीय वृत्तौ
॥ ३५ ॥ है
अत्र कश्चिदाह- किमिति महान् मत्स्यः ? किं वा तस्य तृतीयसमये निजदेशे समुत्पादः । त्रिसमयाहारकत्वं वा कल्प्यते? इति, अत्रोच्यते स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्रातिसूक्ष्मः, चतुर्थादिषु चातिस्थूरः, त्रिसमयाहारक एव च योग्य इत्यतस्तद्ग्रहणं इति, अन्ये तु व्याचक्षते - त्रिसमयाहारक इति आयामविष्कम्भसंहारसमयद्वयं वचिसंहरणोत्पादसमयश्चैते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेष्वित्यतः उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्वातस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसंगाद्, अलं प्रसंगेनेति गाथार्थः । एवं तावज्जघन्यमवधिक्षेत्रमुक्तमिदानीमुत्कृष्ट विभागमभिधातुकाम आह—
सव्वबहुअगणिजीवा० ।। (*४९-९०) ।। सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवो, न भूतभविष्यद्धयो नापि शेषजीवेभ्यः, कुतः ?, असम्भवात्, अग्रयश्च ते जीवाश्च अग्निजीवाः सर्वबहवश्च ते अग्रिजीवाश्च सर्वबह्वनिजीवाः, निरन्तरमिति क्रियाविशेषणं, यावद् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रम् - आकाशम् एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचिरचनया यावद् भृतवन्त इति, भूतकालनिर्देशश्चाजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पियामित्यस्यार्थस्य ख्यापनार्थम्, इदमनन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति अत आह-सर्वदिक्कम्, अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावृधिः क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत् क्षेत्रमित्युक्तं भवति, अथवा सर्वबह्वग्निजीवा निरतरं यावद् भृतवन्तः क्षेत्र
अवधेरुत्कृष्टं क्षेत्र
॥ ३५ ॥