SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नन्दी अवधेर्जघन्य क्षेत्र हारिभद्रीय वृत्तौ ॥३४॥ +CRACAAAA% स्ताध्यवसायस्येत्यर्थः, सर्वतः समन्तादवधिः परिवर्द्धत इति योगः, अनेनाविरतसम्यग्दृष्टेरपि वर्द्धमानक उक्तो वेदितव्यः, वत्तेमानचारित्रस्येस्यनेन तु देशविरतसर्वविरतयोरिति, विशुध्यमानस्य-तदावरणकर्ममलविगमादुत्तरोत्तरं शुद्धिमनुभवतः वि. रतसम्यग्दृष्टरेव, अनेनावधेः शुद्धिजन्यत्वमाह, विशुध्यमानचारित्रस्य देशसर्वविरतस्य सर्वतः समन्तादवधिः परिवर्द्धत इति, तत्र | परिवद्धत इत्युक्तम् , अथ सर्वजघन्योऽयं कियत्प्रमाणो भवतीति प्रश्नसम्भवे क्षेत्रतः प्रतिपादयन्नाह जावइयागाहा।।(४४८-९०)यावती यावत्प्रमाणा, आहारयतीत्याहारकः त्रिसमयं आहारकः त्रिसमयाहारकः त्रीन् वा समयानिति, तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च पनकजीवः, वनस्पतिविशेषः इत्यर्थः, तस्य, अवगाहन्ते यस्यां प्राणिनः सा अवगाहना, तनुरित्यर्थः, जघन्या- सर्वस्तोका, अवधेः क्षेत्र अवधिक्षत्र, जघन्य- सर्वेस्तोक, तुशब्द एवका| कारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-अवधिक्षेत्रं जघन्यमेतावदेवेति । अत्र च सम्प्रदायसमधिगम्योऽयमर्थ: योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेश यः। उत्पद्यत हि सूक्ष्मः पनकत्वेनेह स प्रायः॥१॥ संहृत्य चाद्यसमये स ह्यायाम करोति च प्रतरम् । संख्यातीताख्यांगुलविभागवाहल्यमानं तु ॥२॥ स्वतनूपृथुत्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । | तमपि द्वितीयसमये संहृत्य करोत्यसो सूचिम् ॥ ३॥ संख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुप्रथुत्वदैया तृतीयसमय तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः | समयत्रयेण तस्यावगाहना यावती भवति ॥५॥ तावज्जघन्यमबंधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ ६ ॥ RSSRARSHA ॥ ३४॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy