Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 177
________________ नन्दीहारिभद्रीय वृत्ती याभदः ॥ ५७॥ FASEA5 नितानति, प्रज्ञापनीयानिति न सर्वानेव भापतेऽनन्तत्वाद् आयुषः परिमितत्त्वात , कि तर्हि?, योग्यानेव, गृहीतृशक्त्यपेक्षया, यो हि | |मतिश्रुत| यावतां योग्य इति, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शन्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च श्रुतं भवति 'शेष शेषमित्यप्रधान, एतदुक्तं भवति--श्रोतृणां श्रुतग्रन्थानुसारि भावश्रुतनिवन्धनत्वाच्छेषम्-अप्रधानं द्रव्यश्रुतमित्यर्थः, अन्ये त्वेवं पठन्ति-'वइजोग सुयं हवइ तेसिंस वाग्योगः श्रुतं भवति तेषां श्रोतृणां, भावश्रुतकारणत्वादित्यभिप्रायः, अथवा वाग्योगः श्रुतं द्रव्यश्रुतमेवेति गाथार्थः। 'सेतं' इत्यादि निगमनम् । तदेतत् केवलज्ञानं, तदेतत्प्रत्यक्षम् । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्वरूपमनवगच्छन्नाह चोदकः 'से किं त' मित्यादि ॥(२४-१४०)॥ अथ किं तत् परोक्ष, परोक्षं द्विविधं प्रज्ञप्तं, तद्यथा-आभिनिबोधिकज्ञानपरोक्षं। च श्रुतज्ञानपरोक्षं च, चौ पूर्ववत , अनयोश्चेत्थं क्रमोपन्यासे प्रयोजनमुक्तमेव ॥ साम्प्रतं स्वाम्यभेदप्रतिपादनायाह--'जत्थ आभिणियोहियणाणमित्यादि, यत्र पुरुषे इन्द्रियनोइन्द्रियक्षयोपशमे वा आभिनिबोधिकज्ञानं तत्रैव पुरुषादौ श्रुतज्ञानं, तथा यत्र श्रुतज्ञानं तत्रामिनिबोधिकज्ञानम् । आह—यत्राभिनिबोधिकं ज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिवोधिकज्ञानमिति गम्यत एवेत्यतः किमनेनोक्तेनेति?, अत्रोच्यते, नियमतो न गम्यत इत्यतो नियमार्थ, तथा चाह-'दोवि एयाई' इत्यादि, द्वे अप्यते-आभिनिबोधिकश्रुते अन्योऽन्यानुगते-परस्परं प्रतिबद्धे, स्यादेतद्-एवं सत्यभेद एवास्त्वनयोरित्याशङ्कयाह-'तहवि पुणों' ॥५७॥ इत्यादि, तथापि पुनराचार्याः नानात्व-भेदं प्रज्ञापयन्ति प्ररूपयन्ति, कथं ?, लक्षणभेदाद् , दृष्टश्चान्योऽन्यानुगतयोरप्येकाकाशस्थयोधर्माधर्मास्तिकाययोर्लक्षणभेदाढ़ेद इति, तत्र यो हि गतिपरिणामपरिणतयोर्जीवपुद्गलयोर्गत्युपष्टम्भहेतुर्जलमिव झषस्य स AHARAex

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238