________________
नन्दीहारिभद्रीय
वृत्ती
याभदः
॥ ५७॥
FASEA5
नितानति, प्रज्ञापनीयानिति न सर्वानेव भापतेऽनन्तत्वाद् आयुषः परिमितत्त्वात , कि तर्हि?, योग्यानेव, गृहीतृशक्त्यपेक्षया, यो हि |
|मतिश्रुत| यावतां योग्य इति, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शन्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च श्रुतं भवति 'शेष शेषमित्यप्रधान, एतदुक्तं भवति--श्रोतृणां श्रुतग्रन्थानुसारि भावश्रुतनिवन्धनत्वाच्छेषम्-अप्रधानं द्रव्यश्रुतमित्यर्थः, अन्ये त्वेवं पठन्ति-'वइजोग सुयं हवइ तेसिंस वाग्योगः श्रुतं भवति तेषां श्रोतृणां, भावश्रुतकारणत्वादित्यभिप्रायः, अथवा वाग्योगः श्रुतं द्रव्यश्रुतमेवेति गाथार्थः। 'सेतं' इत्यादि निगमनम् । तदेतत् केवलज्ञानं, तदेतत्प्रत्यक्षम् । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्वरूपमनवगच्छन्नाह चोदकः
'से किं त' मित्यादि ॥(२४-१४०)॥ अथ किं तत् परोक्ष, परोक्षं द्विविधं प्रज्ञप्तं, तद्यथा-आभिनिबोधिकज्ञानपरोक्षं। च श्रुतज्ञानपरोक्षं च, चौ पूर्ववत , अनयोश्चेत्थं क्रमोपन्यासे प्रयोजनमुक्तमेव ॥ साम्प्रतं स्वाम्यभेदप्रतिपादनायाह--'जत्थ आभिणियोहियणाणमित्यादि, यत्र पुरुषे इन्द्रियनोइन्द्रियक्षयोपशमे वा आभिनिबोधिकज्ञानं तत्रैव पुरुषादौ श्रुतज्ञानं, तथा यत्र श्रुतज्ञानं तत्रामिनिबोधिकज्ञानम् । आह—यत्राभिनिबोधिकं ज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिवोधिकज्ञानमिति गम्यत एवेत्यतः किमनेनोक्तेनेति?, अत्रोच्यते, नियमतो न गम्यत इत्यतो नियमार्थ, तथा चाह-'दोवि एयाई' इत्यादि, द्वे अप्यते-आभिनिबोधिकश्रुते अन्योऽन्यानुगते-परस्परं प्रतिबद्धे, स्यादेतद्-एवं सत्यभेद एवास्त्वनयोरित्याशङ्कयाह-'तहवि पुणों' ॥५७॥ इत्यादि, तथापि पुनराचार्याः नानात्व-भेदं प्रज्ञापयन्ति प्ररूपयन्ति, कथं ?, लक्षणभेदाद् , दृष्टश्चान्योऽन्यानुगतयोरप्येकाकाशस्थयोधर्माधर्मास्तिकाययोर्लक्षणभेदाढ़ेद इति, तत्र यो हि गतिपरिणामपरिणतयोर्जीवपुद्गलयोर्गत्युपष्टम्भहेतुर्जलमिव झषस्य स
AHARAex