SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय भेंद: वृत्ती ॥५८॥ SUCCESCAMERCEOCOCCACK खस्वसंख्येयप्रदेशात्मकोऽमृतॊ धर्मास्तिकाय इति, तथा यः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुर्विवक्षया मतिश्रुतयो | क्षितिरिव झपस्य स खल्वसंख्येयप्रदेशात्मकोऽमूर्त एवाधर्मास्तिकाय इति, एवमाभिनिबोधिकश्रुतयोरपि लक्षणभेदानेदः, तथा चाह-'अभिणिबुज्झई' इत्यादि, अभिनिबुध्यते इत्याभिनिबोधिकं--आत्मनः परिणामविशेषः, एवं शृणोतीति श्रुतं-आत्मन एव | परिणामविशेष इति, एतदुक्तं भवति-यदिन्द्रियमनोनिमित्तमात्मनो विज्ञानं श्रुतग्रन्थानुसारेणोपजायते तत् श्रुतं, शेषमिन्द्रियमनोनि-181 | मित्तमाभिनिबोधिकमिति । इत्थं लक्षणभेदाभेदमभिधायाधुना प्रकारान्तरेण भेदमभिधित्सुराह-मतिपुब्वं सुतं, ण मती सुयपु| बिया' 'पृ पालनपूरणयो रित्येतस्य पूर्यते प्राप्यते पाल्यते वाऽनेन कार्यमिति पूर्व-कारण, मतिः पूर्वमस्येति मतिपूर्व, श्रुतं श्रुतज्ञानं, तथा चेदं मत्या पूर्यते प्राप्यते पाल्यते वा, अन्यथा प्रणश्यतीत्यर्थः, न मतिः श्रुतपूर्वेत्यय महान् भेद इति ॥ अत्राह| मतिश्रुतयोयुगपदेव सम्यक्त्वावाप्तौ भाव उक्तः, अज्ञानयोरपि विगमः, तत् कथं मतिपूर्व श्रुतमिति ?, किंच-मतिपूर्वकत्वेऽभ्युपगम्यमाने सति मतिज्ञानभावेऽपि तत्काले श्रुतमज्ञानं प्रामोति, अनाप चेदमिति, अत्रोच्यते, ननु लब्धि प्रति मतिश्रुते समकाले भवतः, न तूपयोगोऽनयोः समकाले इति मतिपूर्व श्रुतं, इह पुनः को भावार्थः ?-श्रुतोपयोगो मतिप्रभवः, यतो नासंचिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानमुत्पद्यते । आह-एवं मतिरपि श्रुतपूर्वा भवत्येव, तथाहि-शब्दं श्रुत्वा या मतिरुत्पद्यते सा श्रुतपूर्वेति प्रतीतं, अतो न विशेषो, यथा मतिपूर्व श्रुतं तथा मतिरपि श्रुतपूर्वेति, अत्रोच्यते, ननु सा द्रव्यश्रुतोद्भवा वर्तते, इह तु न मतिः श्रुतपूर्वेति, ॥५८॥ का भावना?, भावश्रुतात् सकाशात् मतिर्नास्तीति, यद्वा कार्यतया निषिध्यते न पुनः क्रमेण, क्रमेण तु श्रुतोपयोगात् च्युतस्य मत्यवस्थानमिष्यत एवेत्यलं प्रसङ्गेन, न चैतत् स्वमनीपिकयोच्यते, यतोऽभ्यधायि भाष्यकृता-“णाणाणण्णाणाणि य समकालाई यतो ECARRASSASARASHA
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy