SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ .श्रुतयो नन्दी मइसुयाई । तो न सुयं मतिपुव्वं मतिणाणे वा सुयऽण्णाणं ॥१॥ इह लद्धिमइसुयाई समकालाई न तूवयोगो सिं । मतिपुव्वं सुय-14 हारिभद्रीय मतिमिह पुण सुतोपयोगो मतिप्पभवो ॥ २॥ सोऊण जा मती ते सुयपुब्बत्ति तेण ण विसेसो। सा दव्वसुयप्पभवा भावसुयाओ मती, वृत्तौ । नित्थि ॥ ३॥ कज्जतया ण त कमसो कमेण को वा मतिं निवारेइ । जं तत्थावत्थाणं चुतस्स सुत्तोवयोगाओ ॥४||" इतश्च दाबाना ॥ ५९॥ मतिश्रुतयोर्भेदः, भेदभेदात् , तथाहि-अवग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानं, अङ्गप्रविष्टायनेकभेदभिन्नं च श्रुतज्ञानं, इन्द्रियोप-12 ज्ञानता योगलाभतो उक्तो (० लब्धिविभागतो) वा, उक्तञ्च-"सोइंदिओवलद्धी होइ सुतं सेसयं तु मतिणाणं । मोतूणंदव्वसुयं अक्खरलंभो य सेसेसु ॥१॥" इतश्च भेदः, अनक्षरमपि मतिज्ञानं, अक्षरानुगतं च श्रुतज्ञानमिति, अथवाऽऽत्मप्रत्यायकं मतिज्ञानं स्वपरप्रत्यायक श्रुतज्ञानम् , आवरणभेदाच भेद इत्यलं अतिप्रसङ्गेन, इह च यथा मतिश्रुतयोः कार्यकारणभेदान्मिथो भेदस्तथा सम्यग्मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह 'अविसेसिता' इत्यादि ॥ ( २५-१४२)॥ अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता मातः स्वामिविशेषेण सम्यग्दृष्टेमतिर्मतिज्ञानं, निश्चयनयदर्शनेन स्वकार्यप्रसाधकत्वात् , मिथ्यादृष्टेमतिः मत्यज्ञानं, तत्त्वतः स्वफलरहितत्वादित्यर्थः, एवं श्रुतसूत्रमपि व्याख्येयम्। आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेदकार्याभेदे च कथं मिथ्यादृष्टरज्ञाने इति, तथा च मिथ्यादृष्टेरपि क्षयोपशमादेव मतिश्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, ॥ ५९॥ अत्रोच्यते, मिथ्यादृष्टरज्ञाने मतिश्रुते, सदसतोरविशेषादुन्मत्तकवद् , उक्तं च भाष्यकारेण-सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ। णाणफलाभावातो मिच्छाद्दिहिस्स अन्नाणं ॥१॥ विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत PURNAKALASAALOCACACADKA
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy