________________
अश्रुतनि
नन्दीहारिभद्रीय
वृत्ती
श्रितामतिः
॥६०॥
RSEASNA
इति, मिथ्यादृष्टिः कथंचित् सन्तमपि पुरुषे देवादिधर्म न प्रतिपद्यते, पुरुष एवेत्यभ्युपगमात् , तथा असम्तमपि वटादिधर्म | प्रतिपद्यते, अस्त्येवेत्यभ्युपगमात् , अतः सदसतोरविशेष इति, अतश्च मिथ्यादृष्टेमतिश्रुते अज्ञाने, भवहेतुत्वाच्च मिथ्यादर्शनवत्, इतश्चाज्ञानं यदृच्छोपलब्धेरुन्मत्तवत, इतश्चाज्ञानं फलाभावादन्धप्रदीपवत, ज्ञानस्य हि फळं विरतिः, सा च मिथ्यादृष्टेने विद्यते इत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः, इह मतिपूर्व श्रुतमितिकृत्वा मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाह
से किंत'मित्यादि (२६-१४४)॥अत्र निर्वचनं-द्विविध प्रज्ञप्तं, तद्यथा-श्रुतनिश्रित चाश्रुतनिश्रितं च, चौ पूर्ववत्, श्रुतमिह सामायिकादि लोकबिन्दुसारान्तं द्रव्यश्रुतं गृह्यते, तदनुसारेण श्रुतपरिकर्मितमतेस्तदपेक्षमेव च उत्पादकाले यत्तु तनिरपेक्षमेवोत्पद्यते तत् श्रुतनिश्रितं अवग्रहादि, यत्तु तनिरपेक्षं तथाविधक्षयोपशमप्रभवमेव वर्त्तते तदश्रुतनिश्रित-औत्पत्तिक्यादि॥ आह-इदमप्यवग्रहादिरूपमेव, सत्यं, किन्तु श्रुतानुसारमन्तरेणोत्पत्तेर्भेदेनोक्तं । तत्राल्पतरवक्तव्यत्वादश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-से किंतमित्यादि, अत्र
उप्पत्तियागाहा।।(*६१-१४४)।उत्पत्तिरेव प्रयोजनं यस्याःसा औत्पत्तिकी,आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरंगत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रस्वकर्माभ्यासादिकमपेक्षत इति, विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अनाचार्य कर्म साचार्य शिल्पं नित्यव्यापारः कर्म कादाचित्कं शिल्पं कर्मजति कर्मणो वा जाता कर्मजा, परि समन्तात् नमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना
ऊऊऊऊब