SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नन्दी ॥६१॥ OMSROSAROSARMA-- पारिणामिकी । बुध्यते अनयेति घुद्धिर्मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पंचमी नोपलभ्यते केवलिना-18बुद्धिचतुष्क पि,असत्त्वादिति गाथार्थः। औत्पत्तिक्या लक्षण प्रतिपादयत्राह-पुन्य गाहा।।(*६२-१४४)।पूर्वमिति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टः अन्यतश्चाश्रुतः अवेदितो मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितः गृहीतोऽवधारितः अर्थोऽभिप्रेतपदार्थो यया | सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं चाव्याहतमुच्यते, फलं-प्रयोजनं, अव्याहतं च तत्फलं च २ योगो: स्यास्तीति योगिनी अव्याहतफलेन योगिनी २, अन्ये पठन्ति-अव्याहतफलयोगा अव्याहतफलेन योगोऽस्याः सा अव्याहतफल| योगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयत्राह भरहसिल पणिय० ॥१६३ ॥ भरह० ॥ *६४ ॥ महुसित्थ ॥ *६५ ॥ (१४४) गाहाओ, आसामर्थः कथानकेभ्य | एवावसेयः, तानि चावसरप्राप्तान्यपि गुरुनियोगान्न ब्रूमः, किन्त्वावश्यके वक्ष्यामः, अधुना वैनयिक्या लक्षणं प्रतिपादयत्राह . भरणिस्थ० गाहा (*६६-१५९)। इहातिगुरु कार्य दुर्निर्वहत्वाद्भर इव भरः तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयोद वर्गाखिवर्गमिति लोकरूढेधर्मार्थकामाः तदर्जनपरोपायप्रतिपादननिवन्धनं सूत्र, तदन्वाख्यानं त्वर्थः पेयालं प्रमाण सारो वा त्रिवर्ग-17 सूत्रार्थयोर्गृहीतं प्रमाणं सारो वा यया सा तथाविधा, अथवा त्रिवर्ग:-त्रैलोक्य, आह-त्रिवर्गसूत्रार्थगृहीतसारत्वे सत्यश्रुतनिश्रितत्वं विरुध्यत इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमंगीकृत्याश्रुतनिश्रितभावेऽपि 3. न कश्चिद्दोष इति, उभयलोकफलवती ऐहिकामुष्मिकफलवती विनयसमुत्था विनयोद्भवा भवति बुद्धिरिति गाथार्थः । अस्या ४ ॥६१॥ 4 एव विनेयजनानुग्रहार्थ उदाहरणैः स्वरूपमुपदर्शयबाह
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy