SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ बुद्धिचतुष्क नन्दी णिमित्तिगाहा ॥१६७॥ सीता गाहा।।(*६८-१५९॥गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चोत्तरत्र वक्ष्यामः । हारिभद्रीय साम्प्रतं कर्मजाया बुद्धलक्षणं प्रतिपादयबाहवृत्ती उवयोगगाहा।।(*६९-१५९)। उपयोजनमुपयोगो-विवक्षिते कर्मणि मनसोऽभिनिवेशः सार:-तस्यैव कर्मणः परमार्थः, उपयो॥ ६२ ॥ गेन दृष्टः सारो ययेति समासः, अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसंगः २, प्रसंगः-अभ्यासः, परिघोलनं-विचारः, ४ कर्मप्रसंगपरिघोलनाभ्यां विशाला, अभ्यासविचारविस्तर्णेिति भावार्थः, साधु कृतमिति सुष्टु कृतमिति विद्वयःप्रशंसा-साधुकारः &ातेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, कर्मसमुत्था कर्मोद्भवा भवति बुद्धिरिति गाथाथैः ।। | अस्या अपि विनयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह हेरण्णिए गाहा ॥(*७०-१६४)। अस्या अप्यर्थ वक्ष्यामः॥साम्प्रतं पारिणामिक्या लक्षण प्रतिपादयन्नाह अणुमाण गाहा ॥(*७१-१६५)।। 'अनुमानहेतुदृष्टान्तैः' साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमन्तं नय| तीति दृष्टान्तः, आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वाइ, उक्तं च-"अन्यथा ऽनुपपन्नत्वं, यत्र तत्र त्रयेण कि"मित्यादि। साध्योपमाभूतश्च दृष्टान्तः, उक्तञ्च-"यः साध्यस्योपमाभूतस्स दृष्टान्त" इति, कालकृतो | देहावस्थाविशेषो वय इत्युच्यते, तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्-अभ्युदयस्तंत्कारणं वा निःश्रेयसं ASSSSSSSSS
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy