SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ केवलज्ञानं वृत्ती नन्दी- ४ इत्यतस्तदर्थोऽयमथशब्दः, उक्तं च-"अथशब्दः प्रकियाप्रश्नानन्तर्यामंगलोपन्यासप्रतिवचनसमुच्चयेषु' सर्वाणि च तानि द्रव्याणि हारिभद्रीय सर्वद्रव्याणि जीवाजीवलक्षणानि तेषां परिणामाः-प्रयोगविश्रसोभयाख्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता |स्वलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, तत्र भेदोपचारात्तस्या विज्ञप्तेः-परिच्छित्तेः कारणं ॥५६॥ | सवेंद्रव्यपरिणामभावविज्ञप्तिकारणं, अथवा विज्ञप्तिरेव कारणं विज्ञप्तिकारणं, अत एव सर्वक्षेत्रकालविषयं तत, क्षेत्रादीनामपि द्रव्यत्वात् , तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भावाच्छाश्वतं, सदोपयोगादिति भावार्थः, प्रतिपतनशील प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः, आह-यच्छाश्वतं तदप्रतिपात्येवातः किं विशेषणेनेति?, उच्यते, मा भूद् यावद्भवति तावच्छाश्वत| मनवरतमेव भवतीति प्रतिपत्तिः, न पुनरवध्यादिवदन्यथेत्यतो विशेषणमित्यनवरतं भवति सर्वकालं चेति, अथवैकपदव्यभिचारेऽपि | विशेषणविशेष्यभावो भवतीति ज्ञापनार्थ, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं वा, अप्रतिपात्यवधेर• प्यशाश्वतत्वादिति, एकविधम्-एकप्रकारं आवरणाभावात् क्षयस्यैकरूपत्वात् , केवलं-मत्यादिनिरपेक्षं, केवलं च तज्ज्ञानं चेति गाथार्थः॥ इह तीर्थकृत समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेव्यश्रुतरूपत्वात्त|स्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसम्भवादनिष्टापत्तिरिति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह| 'केवल' गाहा ॥ (*६०-२३सू० १३९) ।। इह तीर्थकरः केवलज्ञानेनार्थान-धर्मास्तिकायादीन् मृ मूर्त्तान् अभिलाप्यानमिलाप्यान् ज्ञात्वा विनिश्चित्य केवलज्ञानेनैव ज्ञात्वा, नतु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदमावात् , सवेशुद्धौ देशशुध्ध्यभावादित्यर्थः 'तत्र' तेषामर्थानांमध्ये प्रज्ञापनं प्रज्ञापमा तस्या योग्याः प्रज्ञापनायोग्याः तान् भाषते-तानेव वक्ति, ५६॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy