Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ , प्रथमपदेन कः परामृश्यन्ते-इति निर्णेतुमाचार्यैस्तत्राऽऽरम्भ एव मार्मिकी तर्कचर्चा विधाय AR सः इतिपदेन दिलीपस्य परामर्शः कर्तव्य इति साधितम् । एवं द्वादशे श्लोके कीचकपदं विवृण्वद्भिरेकोनत्रिंशत्तमे च पद्ये गोशब्दस्य प्रवृत्तिनिमित्तं चर्चयद्भिस्तैः संक्षिप्ताऽपि १. रसप्रदा तार्किकी चर्चा विहिताऽस्ति । . तथैवैकोनत्रिंशत्तमे श्लोके धातुमधिकृत्य ससन्दर्भ चर्चा कुर्वद्भिस्तैर्धातुविशेषगोचरा EVM आधुनिकविज्ञानप्रसिद्धा नियमा अपि प्रदर्शिताः सन्ति । एतत्तु तेषां समकालीन। ज्ञानप्रवाहविषयिणीं व्यापकावगाहनशक्तिं सर्वतोग्राहिणी मतिमत्तां च सूचयति । विवक्षितग्रन्थं विवरीषवोऽवश्यं तद्ग्रन्थस्य पूर्वतनविवरणकृतां व्याख्या आलम्बन्ते प्रायशः । इहाऽपि सूरीश्वरैः मल्लिनाथसदृशां विद्वत्सम्मतानां विश्रुतानां च पूर्वसूरीणां विवरणानि सुतरामवलम्ब्य स्वीयव्याख्या विरचिता स्यादेव । तथाऽपि कुत्रचित् ते मल्लिनाथस्याऽपि शब्दानां रुचिरं रहस्योद्घाटनमपि कृत्वा स्वप्रतिभाचमत्कारान् दर्शयन्ति । यथैकोनविंशे श्लोके उपोषिताभ्यामिति पदं 'दृष्टरुपवासं' सूचयति, तत्राऽऽचार्यैरुपमया (NT मल्लिनाथस्य वाक्यमेकमुद्धृतमस्ति- "यथा उपोषितोऽतितृष्णया जलमधिकं पिबति ।" तस्य मर्मोद्घाटनमाचायैरेवं कृतमस्ति - "अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथ: C चतुर्विधाहारत्यागरूप एव वास्तव उपवासो न तु फलाहाररूप - इति ज्ञापयति ।" तथैवोपवासविषयिकी समग्रा चर्चाऽपि तार्किकी मर्मग्राहिणी चाऽस्ति । एवं त्रयोविंशे श्लोके निपीड्यपदस्याऽर्थः संवाह्य इति अकृत्वा 'अभिवन्द्य' इति मल्लिनाथेन कृतोऽस्ति - इति सूक्ष्ममर्म गृहीत्वाऽऽचार्या उल्लिखन्ति यत् - "अत्र स्त्रीपादसंवाहनमयुक्तं ANTA पुरुषस्येत्यभिसन्धाय अभिवन्द्येति (विवृतवान्) मल्लिनाथ इत्यनुमीयते ।" अस्याष्टीकाया समवलोकनेन एतद्विवृत्तिकृतां जैनत्वं सुतरां ज्ञायते, तथा तेषां ली मुख्य आशयोऽत्र रघुवंशसदृशमहाकाव्यस्याऽऽलम्बनेन अहिंसादिपदार्थानां जैनतत्त्वदृष्ट्या प्रतिपादनेऽस्तीत्यपि स्पष्टतयाऽवगम्यते । निजाशये तैः कियत् साफल्यं प्राप्तं तत् पश्यामः । षोडशे श्लोके अतिथिः क्रिया चेति पदद्वयस्याऽर्थं व्युत्पत्तिं च कोष-व्याकरणादीननुसृत्य 6 कुर्वाणास्ते जैनपरिभाषयाऽपि अतिथिपदं कस्मिन्नर्थे प्रयुज्यते ? तथा देवतातिथि पित्रादीनधिकृत्य कतमा क्रिया क्रियते ? इत्यादि प्रतिपादनं कृत्वा 'संसारत्यागी मुनिरेव 1 अतिथिः स्तवन-भक्ति-सत्कारादयश्च क्रिया' इति निरूपयन्ति । तस्यैव श्लोकस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156