Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ * कागिल-हुतात्मभ्यः श्रद्धाञ्जलिः, प्रदूषणसमस्या, आतङ्कवादः - इति षोडश राष्ट्रीयगीतानि * विराजन्ते; पञ्चमे विभागे - महर्षिर्वाल्मीकिः, गणिताचार्यः श्रीआर्यभट्टः, दयानन्दस्तवः, , दयानन्दस्वामी, दयानन्दं वन्दे, हे ऋषिवर्य, महर्षिमहिमा, महर्षिः दयानन्दः, श्रीदर्शनानन्दस्तवः, दर्शनानन्दगुणगरिमा, दर्शनानन्दगौरवम्, यतिः श्रद्धानन्दो, हुतात्मा महात्मा * गान्धिः, पूतात्मा सुकृती, प्रधीर्गोपीनाथो, विराजतेऽयं., श्रीअरविन्दो विजयते, इन्दिरागौरवम्, * - काशिराजो विजयते, श्रीडा.रघुवीराणां., पं.वासुदेवविष्णुदयालः, श्रीरामवृक्षबेनीपुरी०, . र आचार्यालक्ष्मीदेवी, जीव्यात् चिरं., सुश्रीशार्लोटक्राउजे, जयतु क्षितीशः, डा.प्रज्ञादेव्याः , कीर्तिकौमुदी - इति सप्तविंशतिर्गीतानि महापुरुषाणां गरिमाणं गायन्ति; षष्ठे विभागे - * प्रभातवर्णनम्, प्रकृतिसौन्दर्यम्, वसन्तवैभवम्, विभाति दीपमालिका, विन्ध्यवैभवम्, * * नववर्षाभिनन्दनम् इति अष्ट गीतानि प्रकृति वर्णयन्ति; सप्तमे च भागे - संस्कृतभाषागौरवम्, * संस्कृतभाषामहिमा, मारीशसप्रशस्तिश्च - इति त्रीणि गीतानि सुरभारती मारीशसदेशं च । - प्रशंसन्ति । अत्र संकलितेषु गीतेषु कानिचन गीतानि आकाशवाणी-दूरदर्शनादिभ्यः प्रसारितानि सन्ति, कानिचिच्च पत्रपत्रिकासु अपि प्रकाशितानि ।। * विविधान् विषयानधिकृत्य विरचितान्येतानि गीतानि नितरां रम्याणि समुज्ज्वलभावa विलसितानि च सहृदयहृदयं स्पृशन्ति । साम्प्रतमातङ्कवादस्य समस्या निखिलं लोकं 6. निपीडयति । तमधिकृत्य डा. द्विवेदिनो वाणी श्रूयेत । इमे पिशाचाः पिशिताशनाश्च विनाशनीया बहु दण्डपातैः । आतङ्कवादस्य विनाशनाय रुद्रस्वरूपं वरणीयमेव ।। देशद्रुहां नाशनमेव धर्मः, दुरात्मनाशः परमेशभक्तिः । यथायथं संक्ष तथाविधं कार्यमभीष्टमेव ॥ (गीता०, पृ. ५५) * कविवरेण्यस्य राष्ट्रभक्तिरभिनन्द्या विद्यते । स्वक्षेत्रहितप्रधाने युगेऽस्मिन् समग्रराष्ट्रस्य |F कृते बलिदानं ध्रुवं स्पृहणीयमस्ति । ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156