Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ C.L.CCCC कथा 'बाधति' बाधते श्रीअरविन्दभाई कापडिया बी-१२, पंचतीर्थ एपार्टमेन्ट, पांच रस्ता, पालडी, अहमदाबाद-३८०००७ , कुमुदचन्द्रनामैको महाविद्वान् ब्राह्मणपण्डित आसीत् । 'यः कोऽपि मां धर्मचर्चायां पराजयेत्तस्याऽहं शिष्यो भविष्यामी'ति तस्य दृढप्रतिज्ञाऽऽसीत् । एकदा जैनाचार्यश्रीवृद्धवादिसूरिणा सह तस्य वादः सञ्जातः । स वादे जैनाचार्येण पराजितः । तस्मात् स वृद्धवादिसूरिणः शिष्यत्वमङ्गीकृतवान् तस्य च नाम सिद्धसेन इति स्थापितम् । ततोऽल्पेनैव कालेन स जैनागमपारङ्गतोऽभवत् । प्राकृतभाषायां रचितान्यागमसूत्राणि संस्कृतभाषामयानि कर्तुं तस्य मनोरथो जातः । "नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इति तेन शुभारम्भः कृतः । गुरुणा यदा तज्ज्ञातं तदैवं न कर्तुं स आदिष्टः । तथाकरणं जिनानामवज्ञास्वरूपोऽपराधोऽस्ति । एतस्य चाऽपराधस्य प्रायश्चित्तार्थं स द्वादशवर्षपर्यन्तमज्ञातवासे स्थित्वा कमपि राजानं प्रतिबोधयितुं गुरुणाऽऽदिष्टः । गुरोराज्ञां स्वीकृत्य स प्रस्थितः । कालान्तरेण उज्जयिनीं प्राप्य विक्रमादित्यनामराजानं प्रबोधितवान् । तेन च तुष्टो राजा तं राजगुरुपदवी प्रदाय शिबिकादी: सर्वा अपि सामग्रीः प्रदत्तवान् । अथ सोऽपि राजमन्दिरं गन्तुं नृपतिना प्रेषितां शिबिकामारुह्य नित्यं राजसभां गच्छति स्म । गुरुणा यदा सिद्धसेनस्यैष शिथिलाचारो ज्ञातः तदा सोऽतीव दुःखितो जातः । तं " प्रमादान्निवारयितुं वेशान्तरं कृत्वा शिबिकावाहको भूत्वाऽन्यैः शिबिकावाहकैः सह शिबिकां वोढुं प्रावर्तत । मार्गे यदा स सुष्ठ न चलति स्म तदा सिद्धसेनः तं प्रत्यवदत् - "भो ! CCCCCC CCCCC Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156