Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 140
________________ - ___ 'अरे मूर्ख !' सकोपं राजाऽवदत् - 'त्वमेतावदपि न जानासि ? दीर्घयात्राशब्देना जो तु परलोकयात्रा- इति मे आशयः । ज्ञातं खलु ? तत्र तु सर्वैरपि गन्तव्यमेव खलु ? अस्त्यत्र कोऽप्यपवादः ?' विदूषको गम्भीरां मुखमुद्रां कृत्वा प्रोवाच-'सत्यं राजन् ! सत्यं भवतश्चिन्तनम् । परमस्मिन्नवसरे भवान् तु सर्वरीत्या सज्ज एव खलु ?' विदूषकस्य प्रश्नं श्रुत्वा राज्ञोऽक्षिणी बाष्पार्दे जाते । व्यथितः स उवाच - 'एष, एव खेदो मम । कदाचित् सर्वैरपि लोकमेनं त्यक्त्वाऽन्यत्र गन्तव्यमेव भवति - इति जानताऽपि मया तादृशं किमपि नाऽऽचरितं येन तृप्ति सार्थकतां वाऽनुभवेयम् । हा ! एवमेव गतं वयः ।' खिन्नं राजानं विदूषकोऽसान्त्वयत् प्रणनाम च । शनैश्च हस्तिदन्तशूलेन निर्मितं तव्यजनं तत्रैव शय्यायां राज्ञः समीपे मुक्त्वा निःशब्दमेव ततो निःसृतः । ('नवनीतसमर्पण'सामयिकत: अनूदिता । मू.ले.राजु दवे ॥) यस्य नाऽस्ति विवेकस्त केवलं भो ! बहुश्रुतः । न स जानाति शास्त्रार्थान् दीं पाकरसानिव ।। Garle १२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156