Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हास्यमेव जयते
सरल-निर्दोष-हास्यस्रोतः
ग्रन्थसमीक्षा
अनिलः र. द्विवेदी
अध्यापकः, संस्कृतविभागः, भवन्स श्री ए.के.दोशी महिला कोलेज,
जामनगरम
कीर्तित्रयी-सङ्कलितां 'हास्यमेव जयते' इतीमां पुस्तिकां पठन् विशुद्धहास्यमनुभूतवान् । नन्दनवनकल्पतरुप्रकाशनमिदम् । परमप्रभाववद्भिः श्रीशीलचन्द्रसूरिभिरस्याः सुन्दरा प्रस्तावना लिखिता । अस्यां पुस्तिकायां हास्यसमृद्धाः हास्यकणिकाः वर्तन्ते।
__मानवजीवनं ब्रह्मसृष्टिस्थितानां षड्रसैः पूर्णं तु वर्तते, किन्तु एषा पूर्णता प्रायः र 4 शरीरोपयोगिनी भवति । मनसः कृते तु कविसृष्टिस्थिताः नवरसाः रुचिकराः । यद्यपि
सत्यमिदं- 'तृषातुरैः काव्यरसो न पीयते' इति । परन्तु तृप्तानां कृते तु काव्यशास्त्रविनोदेन र कालयापनमेव अभिलषणीयम् । अनया दृष्ट्या नवरसाः आवश्यकाः । एषु हास्यस्य र महत्त्वमपि अनन्यमेव । सम्प्रति हास्यचिकित्सापद्धतिः (Laughing therapy) प्रसिद्धा, * प्रचलिता, स्वीकृता च । स्वस्थस्य स्वास्थ्यरक्षणमिति आयुर्वेदस्य अन्यतमं प्रयोजनम् । - एतत्प्रयोजनसिद्ध्यर्थं हास्यमपि योजितव्यं मनुष्यजीवनेन इति निर्विवादं सत्यम् ।
संस्कृतसाहित्ये नवरसेषु हास्यस्य समावेशो भवति । गीर्वाणवाणी हास्यरसयुक्ता अस्ति । तथापि सा शृङ्गारबहुला । यद्यपि शृङ्गारस्य हास्यस्य च सम्बन्धः निकटतमः । अतः अनेकस्थलेषु शृङ्गारेण सह हास्यरसः दृश्यते । परन्तु हास्यरसोऽयं परम्परागतो
भवति । तथाऽपि न एषः निन्द्यः, तद्युगवन्द्यः एव । काव्येषु सुभाषितेषु च । र हास्यरसोऽवलोक्यते, किन्तु अधिकतरः ध्यानाकर्षक: हास्यरसः नाटकेषु दृश्यते । परन्तु र - नाटकस्थोऽपि हास्यरस: बहुलतया विदूषकद्वारा अभिव्यक्ति प्राप्नोति । अतः तत्रापि
AM
AS
VIE
ENTEra
१२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156