Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ प्रदानम् - तेन सूरिणाऽर्थगभीरा विविधविषयका अनेके ग्रन्था रचिताः । तत्र ॐ... - प्राकृतगाथानिबद्धः 'श्रीसन्मतितर्कप्रकरण' नामको ग्रन्थोऽग्रेसरत्वं भजति । तत्र ग्रन्थे कर, स्याद्वादस्याऽन्येषां वादानां च गभीरा चर्चा कृताऽस्ति । अस्योपरि श्रीअभयदेवसूरिभिवृहद . ॐ विवरणं कृतमस्ति । अस्य ग्रन्थरत्नस्य सम्पादनं पं. सुखलालजीमहोदय-पं. बेचरदासजीमहोदयाभ्यां महता परिश्रमेण विहितमस्ति । तेषामपरा कृतिरस्ति द्वात्रिंशद्वात्रिंशकेति । ताभ्यो द्वात्रिंशकाभ्य एकविंशतिद्वात्रिंशिका एव समुपलभ्यन्ते । शेषा द्वात्रिंशिकास्तु कथमपि कुत्राऽपि विनष्टा इति प्रतिभाति । एतासु द्वात्रिंशिकासु भगवतो महावीरस्य मार्गस्य लोकोत्तरता, तद्गुणानां वैशिष्ट्यम्, तत्त्वज्ञानम्, वादोपनिषद्, वादविवादस्य नैरर्थक्यम्, ब्रह्मतत्त्वम्, साङ्ख्यमतम्, वैशेषिकदर्शनम्, बौद्धदर्शनम्, नियतिवादः (अस्या द्वात्रिंशिकायाः संशोधनपूर्वकः सविवेचनो का गूर्जरानुवादो मुनिश्रीभुवनचन्द्रजीमहाराजेन कृतोऽस्ति), मोक्षमार्गः, न्यायावतारः (अस्या . * अपि द्वात्रिंशिकाया बृहट्टीकोपलब्धाऽस्ति), इत्यादयो विविधा विषया निरूपिताः सन्ति । म श्रीसिद्धसेनदिवाकरसूरिणा स्वजीवनवृत्तं कुत्राऽप्युल्लेखितं न दृश्यते किन्तु विभिन्नेषु । र प्राचीनग्रन्थेषु तत् किञ्चित् प्राप्यते । तत्सर्वमवलोक्य पं. श्रीसुखलालजीमहोदय-पं. १०... - श्रीबेचरदासजीमहोदयाभ्यां 'सन्मतितर्कप्रकरण'- ग्रन्थस्य प्रास्ताविके विशदतया वर्णितमस्ति। अतो विशेषार्थिभिस्तत एवाऽवलोकनीयम् । जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहं चिन्तारतमुपस्थितं करतले प्राप्तो निधि: सन्निधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये सन्तोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ।। (सोमप्रभाचार्यरचिता सूक्तमुक्तावली ॥) 1987 ११६ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156