Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ON
अनुवादः
> हृदयवेधः एकः शरः एका च गदा । द्वावपि सोदरौ भ्रातृभगिन्यौ।
शरो दुर्बलो लघुकश्च । गदा स्थूला गुर्वी च । सा निजशारीरिकसामर्थ्येन गर्वोत्रताऽऽसीत् । अत एकदा सा शरं कथितवती
भोः शर ! यद्यपि त्वं मे भ्राताऽसि तथाऽपि तव भ्रातृत्वप्रभावाद् मम शोभा न्यूनीभवति । त्वमसि निर्बलः शुष्कशरीरश्च । अहं तु बृहत्काया बलवती च । मम भार गौरवपूर्णां मूर्ति दृष्ट्वा सर्वेऽपि मां नमस्यन्ति । अन्यथाऽहं तेषां मस्तकं स्फोटयिष्यामीति का
ते जानन्ति । एतद्वैपरीत्येन त्वं तु नितरामकिञ्चित्करोऽसि । तव यत्किञ्चिदपि सम्माननं में भवति तद् ममैव प्रभावाद् भवति । अतस्तव जीवनं सर्वथा निष्फलं निरर्थकं च । त्वं का तु पद्यमिव तपस्वी लघुश्च । अहं तु गद्यमिव महत्त्वयुता गुर्वी च । अतो ममैव जीवनं । सफलं सार्थकं च ।
श्रुत्वैतत् सर्वं शरोऽवदत्
भगिनि ! सत्यमेतद् यत् त्वं गुर्वी अहं तु लघुकः, त्वं बलवती शिरोभञ्जनी चाऽहं की तु दुर्बलः शुष्कदेहश्च । किन्त्वेतावन्मात्रेणैव त्वं महत्त्वयुता सप्रयोजना च, अहं तु अकिञ्चित्करो निष्प्रयोजनश्च; तव जीवनं सार्थकं मम तु व्यर्थं निष्फलं चेत्यादि सिद्धं न भवति । - यदि त्वं मामतिशयितुमेवाऽभिलषसि तर्हि यत् कार्यमहं करोमि तत् कृत्वा कर SL दर्शय। अहं हृदयवेधं करोमि । त्वमपि मस्तकस्फोटनाद् निवृत्य हृदयवेधे प्रवर्तस्व । तदाऽहं त्वां महत्त्वशालिनी मंस्ये ।
एतच्छ्रुत्वा गदा तूष्णीं जाता । सा मस्तकस्फोटने दक्षाऽऽसीत् किन्तु हृदयावित् तु शर एव । पद्यकार्यं साधयितुं गद्यं नाऽलं खलु !!
[मूलकर्ता : बांग्लाभाषायां महाकवि
श्रीरवीन्द्रनाथ टागोरः, कणिकानाम्नि मुक्तक-कवितिकासंग्रहे । तस्य गूर्जरानुवादः का
रविप्रसादे श्रीरमणलालसोनीकृतः]
Bra.Com
ANATAANRASAIRAL
११४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156