Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनुवादः
जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ____ (संक्षिपपरिचयः प्रदानं च)
600-
... गूर्जरभाषायां
मुक्तभावानुवादः मू.ले. श्रीमावजीभाई सावला
मधुसूदन-व्यासः संस्कृतविभागाध्यक्षः
आर्ट्स कोलेज, है
पो. शामलाजी. ३८३३५५ (गूज.) ___ परिचय :- वि.सं. १३३४ तमे वर्षे श्रीप्रभावचन्द्रसूरिभी रचितः 'प्रभावकचरित्रम्' नाम ग्रन्थः समुपलभ्यते । तत्राऽऽचार्यश्रीसिद्धसेनदिवाकरसूरे वनवृत्तमस्ति । तदनुसारेण Hars तस्य जन्मस्थलम् ‘उज्जयिनी'नगरमासीत् । 'सिद्धसेन' इति तस्य नामाऽऽसीत् । तस्य
पिता च कात्यायनगोत्रीयो देवर्षिनामा ब्राह्मण आसीत् । सकलवेदविद्यापारगामित्वं तेन प्राप्तमासीत् । वादकलानैपुण्यं प्राप्तवतः सिद्धसेनस्य मनस्यहङ्कार आसीद् यद्, 'मां न
कोऽपि वादे पराभवितुं शक्नोति' । अतस्तेन सङ्कल्पितं यद्, यदि नाम मां कोऽपि वादे ०६, पराजयेत्तदा तस्य शिष्यत्वमहमङ्गीकरिष्ये । जैनाचार्यश्रीवृद्धवादिसूरिभिः पराजितः स .
स्वप्रतिज्ञानुसारेण तेषां शिष्यत्वमङ्गीचकार । पश्चाच्च जैनसाधुर्भूत्वा तेन जिनशासनोन्नतेरनेकानि ".
कार्याणि कृतानि । तस्य योग्यत्वं विज्ञाय गुरुभिराचार्यपदे स्थापितः सः । तदनन्तरं स ॐ सिद्धसेनदिवाकरसूरिरित्याख्यया विश्रुतो जातः ।
यद्यपि तस्य समयो न सुस्पष्टतया निर्णीतः, तथाऽपि विक्रमस्य पञ्चमषष्ठशताब्द्योः तस्य विद्यमानताऽऽसीदिति विदुषां मतम् । 'सिद्धसेनशतक'नामके पुस्तके तत्सम्पादकेन । - मुनिश्रीभुवनचन्द्रेणैवं तर्कितं यद्, 'वि.सं. ६६६तमवर्षे श्रीजिनभ्रद्रगणिक्षमाश्रमणेन रचिते * 'विशेषावश्यकभाष्य'नामके ग्रन्थे श्रीसिद्धसेनदिवाकरसूरेः समुल्लेखः प्राप्यते । अत एतत् . सिद्धं भवति यत् सप्तमशताब्दीपूर्वमेव स सञ्जातः" ।
११५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156