Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ विपिनदेवताभिः । “अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् “इर्त्यमरः । उच्चैः 'उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:-"एकदिग्गामिनी कीर्तिः । सर्वदिग्गामुकं यशः" । "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्राव श्रुतवान् ॥ वाच्यपरिवर्तनं त्वेवम्-तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु र - वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥ __ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुञ्जेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं को ॐ वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥१२॥ पृक्तस्तुषारैगिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥ पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्-पर्वतनिःसृतॐ वारिप्रवाहाणाम् । “वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैः-सीकरैः । 'दन्त्यः का सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । “तुषारो हिमदेशयोः । शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकार्थसंग्रहः । “तुषारौ हिमसीकरौ" * शाश्वतः, "तुषारः हिमे कर्पूरे शीते च" | पृच्यते स्मेति पृक्त:-सम्पृक्तः ।। ____ अनस:-शकटस्य अक:-गतिः अनोकः, अनोकं घ्नन्तीति अनोकहाः, कम्प्यन्ते - स्मेति कम्पितानि, आ-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च । आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)ऽस्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवनः-वातः । * १. अम० द्वि० वनौषधिवर्ग-१ । ३. अम० द्वि० शैलवर्गे-५ । २. अम० प्र० शब्दादिवर्गे-११ । ४. अनेकार्थसंग्रहे तृ० ५५४-५५ । ३० For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156