Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
at किमपि कथयेम. आचरेम च तत सर्वं हि निराबाधतया शास्त्रं जनसम्मतमाप्तवचन
मागमप्रमाणितं च भवेत् । तदा तु सर्वेषां मुग्धजनानां वञ्चने का बाधा स्यात् ?" इति । SMS जानन्ति ते ।
कथितं च - स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः ।
नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ सर्वत्रैषैव रीतिः प्रवर्तमानाऽस्ति । अत्र नाऽन्यत् किमपि प्रमाणमावश्यकम्, यतो छ वयं सर्वेऽपि प्रतिदिनमेतां रीतिमनुभवामः ।
बन्धो ! प्रवर्तमानयैतद्पद्धत्या द्वावलाभौ भवतः । एकतः सज्जना बुधजनाश्च देशसमाजयोः सत्कार्येभ्यः शनैः शनैर्दूरीभवन्ति । यत एते प्रसिद्धजनाः सदाऽस्माकं विना
कारणमवहेलनां निन्दां च विधास्यन्ति, तथा स्वप्रतिष्ठार्थमस्माकं प्रतिष्ठां म्लानीकरिष्यन्तीति BE जानन्ति ते प्राज्ञजनाः । एवं देशे समाजे च सज्जनानां गुणिजनानां च सङ्ख्याऽल्पीभविष्यति,
तथा च दुर्जनानामुद्धतजनानां च वृद्धिर्भविष्यति । प्रान्ते केवलं दुर्जनानां दुर्गुणानां चैवाऽस्तित्वं ह भविष्यति । अहो ! पश्यतु, अद्याऽपि मुख्यस्थानानां मुख्याधिकारिणः कीदृशाः सन्ति ! a अपरतोऽसदाचरणं दुर्नीतिविरुद्धरीतिश्चैव देशे समाजे कुटुम्बे धर्मस्थाने च परम्परा भविष्यति, यतोऽग्रण्यो यत् कुर्वन्ति तदेव तदाश्रिता जना अनुकुर्वन्ति । कथितं च - यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (गीता - ३-२१) ६ ___ एवं यदाऽग्रगण्या मुख्याधिकारिणश्चैव स्वेच्छापूर्त्यर्थं सुखभोगार्थं चाऽसदाचरणं विपरीतवर्तनं च कुर्युः तदा तदाश्रयिणो मुग्धजनाः "एतदेवोचितं मान्यं च तथैषैवाऽस्माकं . कुलरीति"रिति मत्वाऽनुसरेयुः । समाजे जीवने चाऽधर्मस्याऽनीतेश्च प्रवेशः स्वकीयानामग्रणीनां
प्रमादवशादेव भवति । एवं सति गच्छति काले मूलपरम्परा विलुप्स्यते तथाऽशुद्धचेष्टेव ER रीतित्वेन स्थास्यति । ततो न कदाऽपि लोकविरुद्धमाचारविरुद्धं च करणीयमग्रणीभि
न्यजनैश्च, यत् एते मान्यजना अनेकेषां जीवानामाधारभूताः, केषाञ्चिज्जीवानां श्रद्धास्पदरूपाः सन्ति । अतो यदा ते एव प्रतिकूलमाचरेयुः तदा नैकेषां जीवानां श्रद्धाभङ्गो भवति, कदाचिदनेके जीवा धर्मविमुखा नीतिविमुखाश्चाऽपि भवन्ति । ततः प्रसिद्धजनैरत्यन्तं
१११ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156