Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ I प्रयत्नः क्रियते तैः । तथाऽपि ते जनाः स्वान् पण्डितान् महतश्च मन्वते । ततोऽपि महदाश्चर्यं त्वेतद् यद्, नैतावान् तेषां महेच्छाया अवधिः, अपि त्वन्ये सर्वेऽपि जना अस्मान् “एते ज्ञानिनो महान्तः पण्डिताश्चेति कथयेयुः, सर्वेऽस्मदधीनाः स्यु" रिति महन्तीमभिलाषां सेवन्ते ते । किन्त्वायासमकृत्वैवैतादृशी महेच्छाऽऽसेवनीया, सा तु महामूर्खताऽस्ति । हन्त ! मूढोऽपि जनः पण्डितंमन्य इव चेष्टते । अतो द्वयोर्मध्ये किमन्तरम् ? । न कदाचिदपि कोऽपि जनो जन्मत इच्छातश्च महानस्ति, अपि तु पुरुषार्थेनैव महान् भवति । वस्तुतो यो महान् ज्ञानी चाऽस्ति स न हि स्वं महान्तं दर्शयितुं प्रयतते यश्च प्रयतते स कदाऽपि महान्न स्यात् । कृत्रिमताया आवरणमपाकृत्य वास्तविकताया उद्घाटने एव यथार्था महत्ता विद्वत्ता च स्तः । तथाऽप्यद्य सर्वेऽपि जनाः स्वशक्तिमज्ञात्वैव वास्तविकतां निरुध्य च केवलं महत्तामभिलषन्ते, न तु प्रयतन्ते । किञ्च - इदमपि ज्ञेयं यद्, यथा रसायनस्योचितोपयोगः शक्तिवर्धकः, एवं च । यथेच्छं तदुपयोगः शक्तिनाशको भवति । तथैव महत्त्वाकाङ्क्षाप्येकमुत्तमं जीवनरसायनं विद्यते । सा कांश्चन् जीवान् तारयति, कदाचित् सैव महत्त्वाकाङ्क्षा जीवान् मारयेदपि । अतो महत्त्वाकाङ्क्षाऽपि स्वशक्त्यनुरूपैवाऽऽ सेवनीया । किं पङ्गुर्मेरुगिरिमारोढुं शक्तो भवेत् ? किं भिक्षुको भूमीशो भवितुं शक्नुयात् ? नैतच्छक्यम् । तथैव न शक्तिशून्या जीवा महत्तां प्राप्तुमर्हाः सन्ति । एते पूर्वव्यावर्णिताः प्रसिद्धजनाः शक्तिशून्याः सन्ति, तथाऽपि ते महत्त्वाकाङ्क्षिणः सन्ति । अतो येन केन प्रकारेण महत्तामवाप्तुं प्रयतन्ते ते । तदा च तुच्छा वराकाश्च ते जीवा अत्यन्तं निकृष्टं जुगुप्सनीयं च मार्गं स्वीकुर्वन्ति । " एषाऽन्यस्य रेखां लघ्वीं कृत्वा स्वस्य रेखाया वृद्धे च्छाऽस्ति यद् अन्यस्य सद्गुणा अपि दुर्गुणत्वेन कथनीयाः, तथाऽऽत्मनो दुर्गुणा अपि सगुणरूपेण वर्णनीया" इति । अत्राऽन्यस्य रेखां लघ्वीं कृत्वा स्वरेखाया वृद्धिकरणे न पौरुषम् । एतद्द्वारेण तु तादृशा जीवा आत्मनो दुर्बलतां नपुंसकत्वं चैव प्रमाणीकुर्वन्ति । हन्त ! एतादृशा जीवाः पुंस्त्वशून्याः सन्तोऽपि महत्त्वाकाङ्क्षाया बलादेतादृशीं म्लानरीतिमनुसरन्ति, अनुसृत्य तुच्छप्रसिद्ध्या स्वप्रशंसार्थं निरन्तरं प्रयतन्ते । यतो "यदि नामैकदैवंरीत्या समाजे ग्रामे देशे च प्रसिद्धा जनप्रियाश्च भवेम तर्हि का चिन्ता ? पश्चात्तु किमपि कर्तुं स्वतन्त्रा वयं भवामः । तथा च वयं स्वेच्छया कार्यं कर्तुं कारयितुं च शक्नुमः । वयं यत् Jain Education International ११० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156