Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
* सच्चारित्री प्रवक्ता तपस्वी प्रशान्तः त्यागी चेति वर्येत तदाऽन्यधिया प्रवर्तमानैः सर्वैर्जनैः
तस्याऽऽभ्यन्तरवृत्तिं सहजं स्वरूपं चाऽनुपलक्ष्य तथा वास्तविकतामवगणय्यैवेष सज्जनो
ज्ञानी त्यागी चेत्युच्यते । तथैव यदि केनचिदेकेनाऽप्येष दुष्टो दुराचारी क्रोधी मिथ्याभिमानी । चेति गद्येत तदा सर्वैर्जनैरपि तथैव तेन सह व्यवह्रियते । नाऽत्र स्वकीयस्य विचारस्य । * कोऽप्यवकाशोऽस्ति । एवं सर्वे जना गतानुगतिकतयैव प्रवर्तन्ते । तदैते बुद्धेब्रह्मचारिणः १ - (मूर्खा:) इति किं नाऽऽभाति ? ।
बन्धो ! एतादृस्थितेः प्रभावादिदानी देशे समाजे कुटुम्बे धर्मस्थाने चा वास्तविकदृष्ट्याऽतीव निकृष्टा दुःशीलाश्च जना लोके सज्जनरूपेण प्रतिष्ठिताः, देशस्य ।
समाजस्य चाऽग्रणीत्वेन स्थापिताः । कदाचित्तु कमलस्य 'क' कीदृशः ? इत्यपि न # R जानन्ति ये तेऽपि महाज्ञानित्वेन विख्याताः । येषां देहे प्रतिरोमं कामवासनाग्निः प्रज्वलति ।
तादृशा अपि चारित्रचूडामणि-अखण्डब्रह्मचर्यपालकत्वेन वर्णिताः । कदाचित् कैश्चित् । धनेन सत्तया वाक्चातुर्येण चैवं येन केन प्रकारेण समाजे लोके च सन्मान-पद-प्रतिष्ठादिकं in प्राप्तम् । एवं ये जना लोके प्रसिद्धा लोकप्रियाश्च स्युः ते 'वयं किमपि कर्तुमधिकारिण' इति मन्वते । पश्चात् यथा "प्रसिद्धेन यत् क्रियते सा लीला" प्ररूप्यते तथैव तादृशै
१ःशीलैरज्ञानिमूर्धन्यैरपि लोकप्रसिद्धत्वादिबिरुदधारिभिः तैर्जनैर्यत् किमपि विधीयते तत् EN सर्वं लीलात्वेन स्वीक्रियेत । वस्तुत एतादृशैस्तुच्छजनैः स्वमनीषिकयैव शास्त्रनिरपेक्ष
धर्महानिकर जनविरुद्धं कलङ्करूपं वा यत् किमपि कथ्यते आचर्यते च तत् सर्वं । - श्लाघनीयमाचरणीयं वन्दनीयं वाऽपि भवति । अत्राऽप्याश्चर्यं त्वेतद् यद्, जनप्रियैर्यदाचरितं -
गदितं वा तदेव यदि नाम सामान्यजनैः क्रियेत तर्हि तन्निन्दनीयं स्यात् । अहो ! प्रसिद्धजनानां 1 लीला वर्णनीयैव खलु ।
बन्धो ! तेषां माहात्म्यं (?) कथं वर्णयानि ? तेषामसत्यवागपि सत्यरूपेण 0 प्रतिष्ठाप्यते, तथा ते सत्यवादिहरिश्चन्द्रस्याऽवतारा मन्यन्ते । कामवासनातिरेको दुराचारश्चाऽपि Eva वात्सल्यत्वेन निरूप्येते । अभिमानिन उद्धता वा सन्तोऽपि ते विनयिनो गण्यन्ते । प्रतिपदं व माया-प्रपञ्चादिकमनुसरन्तोऽपि सरलहृदयत्वेन प्रसिद्ध्यन्ते । कृपणधियोऽपि दानवीरत्वेनाऽ
५ भिनन्द्यन्ते । स्खलन्तो भाषमाणा अपि वाक्पटुत्वेन मन्यन्ते । आशुकोपना अपि प्रशान्ताः । | ( कथ्यन्ते । अहो ! खलु तेषां लीला ! ।
१०८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156