Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किमेकस्याऽपि रत्नस्य स्थानं ग्रहीतुमलम् ? गर्तसहस्राणि किं समुद्रो भवितुमर्हन्ति ? TAY बाह्यदृष्ट्या कदाचिदस्माभिः प्रभूतमुपलब्धं स्यात् किन्तु स्वत्वं त्वस्माकं नाशितमेव । अत A) एव चेयान् भौतिको विकासः साधितः सन्नप्यस्माकमास्ये हास्यं, तेजः, ओजः, उल्लासः, MAA तृप्तिर्वा न दृश्यते एव । निरन्तरमस्माकं सत्त्वं सुखं वा म्लानं मलिनं च भवति । यच्च HD मुखे दृश्यते तन्न तृप्तेस्तेजोऽपि तु मिथ्यादर्पस्योपलेप एवाऽस्ति ।
___ उपर्युक्ता घटना ह्यस्माकमेव भूतकालोऽस्ति । ततो झरत् सत्यमस्माकमेव जीवनसत्यमस्ति । केवलं तिरोभूतमधुना तत् । यत्स्वरूपं वर्तमानकाले दृश्यतेऽस्माकं तन्न an वास्तविकम् । अस्यां घटनायामभिव्यज्यमानं स्वरूपमेवाऽस्माकं वास्तवं स्वरूपं स्वत्वं । N वाऽस्ति ।
सत्यमेतद् यद् वयं मूलस्थितितो दूरमागताः स्मः किन्तु प्रतिनिवर्तनं न शक्यमिति तु न । प्रजानां मूलभूतं सत्त्वं त्याग-समर्पण-भ्रातृत्व-सदाचारादिरूपेणाऽस्ति । य एष र विपर्यासो विपर्ययो वा दृश्यते स त्वारोपितः । प्रजानामज्ञानमुपयुज्य तच्चित्ते वैर। वैमनस्य-पारस्परिकाविश्वास-गुरुतादिभावानां बीजान्युप्तानि सन्ति । यद्यद्याऽपि वयं जागृता . - न भविष्यामस्तर्हि बहुविलम्बो भविष्यति । पश्चादास्तां ततः प्रतिनिवर्तनस्य वार्ता परं NAL तादृशो विचारोऽपि दुःशको भविष्यति । आत्मनिरीक्षणस्य समयोऽधुना परिपक्वो जातोऽस्ति । -
र कुत्र स्खलिता वयम् ? कियत् किं किं च नाशितम् ? अवसरोऽयमस्ति जागरुकतायाः । Song यावच्चित्ते सत्त्वस्यैकोऽपि तेजःकणः प्रज्वलितोऽस्ति तावज्जागृतैर्भवितव्यमस्माभिः । Mad CM एवमेव वयमस्माकं विनष्टं म्लानं सत्त्वं पुनर्जागृतं तेजस्वि च कर्तुं शक्ष्यामः । - स्वस्थमात्मनिरीक्षणमेवाऽत्रोपायः । तदेवाऽस्माकमार्यत्वं पुनः प्रस्थापितं करिष्यति तेजोन्वितं . निशितं प्रभावि च निष्पादयिष्यति।
गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ।।
१०६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156