Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
1 प्राप्यमाणा आसन् । एते संस्कारा एवाऽस्माकं सम्पदार्यत्वस्य च परिचय आसन् । 'आर्य'
- इति शब्दो यत्र प्रयुज्यते तत्र सर्वेऽप्यन्ये हिन्दु-मुसल्मीनादयः परिचया गौणा एव जायन्ते । सो My अन्यसत्कानि सुखदुःखानि स्वकीयानीति कृत्वा य: संवेदयति स आर्यः । एतादृशं ।
तेजोमयमार्यत्वं यत्र विद्यते तत्र हीश्वरः स्वयमेवाऽऽवसति, तस्य सहायार्थं च सदोपस्थितो - स भवति ।
ईशश्रद्धाया अतोऽप्युत्तमोऽन्यः परिपाकः किं नाम भवितुमर्हेत् ? एतादृशा उदात्ता । 15 ईश्वरीया अंशा यदि नोद्धटेरन् तींशश्रद्धाऽपि केवलं विडम्बनरूपा भवति । आस्तिक्यं तु MY
न केवलमीश्वरस्य स्वीकारे पर्यवसति किन्त्वन्तःस्थितानि सुषुप्तानीशतत्त्वानि शनैः शनैरुद्घाट्य स्वकीयमीश्वरत्वं प्रत्यग्रेसरीभवने तत् सार्थक्यं भजति ।
किञ्च, अत्र किमपि प्रतिफलं प्रत्युपकारं वाऽपेक्षितं न दृश्यते । अन्तःपरितोष एव । 1 फलं नाऽन्यद् बाह्यं किमपि । एतादृशस्य प्रसङ्गस्य पठनेनैका श्रद्धा दृढा भवति यन्मनुष्य स एवेश्वरो भवितुमर्हति । अत्र प्रसङ्गे यत् सत्तत्त्वं दृश्यते तदीश्वरस्यैवांऽशः खलु ? TH 1 एतादृशमेकमंशं दृष्ट्वा ज्ञात्वा चाऽपि यदि नेत्रे क्लिन्ने भवतः, शीर्षं नमति, हृदयं च । MAY पुलकितं भवति तर्हि तादृशा ईश्वरीया सर्वेऽप्यन्तःस्था अंशा यदोद्घटिता भवेयुस्तदा तु का Viar वार्ता ? एतादृशस्त्वीश्वर एव भवति । अपरं च सत्तत्त्वं दृष्ट्वा यन्नेत्रक्लेदादिरूपेणाऽहोभावो
जायते तदपीश्वरं प्रति पक्षपात एव खलु । एषोदात्ता वृत्तिरीश्वरत्वाविर्भावस्य मार्गोऽस्ति, - अहोभावश्चेश्वरसामीप्यस्य मार्गोऽस्ति । अस्या घटनायाः स्रवन्त्युदारता परमात्मनि विद्यमानाया । अनन्तायाः करुणाया बीजमस्ति ।
किन्तु, कुत्र गतास्ते दिवसाः ? कुत्र लुप्ता साऽऽत्मौपम्यवृत्तिर्मानवता वा ? क्व विलीनः स गुणवैभवो योऽस्मान् प्रमाणीकुर्वन्नासीत् ? येन च वयमुन्नतमस्तका आसन् ? अस्माभिविस्मृतोऽयं वैभवः । अन्तःस्फूर्तादेतादृशाद् वैभवादपि बाह्यो वैभवो महत्त्वपूर्णः प्रतिभासते । आत्मीयतायाः स्थानं स्वार्थेन गृहीतमस्ति । आत्मसम्माननस्य आत्मगौरवस्य वा स्थाने मिथ्याभिमानो जागृतोऽस्ति । यत्राऽऽत्मतृप्तिरेव सुखस्य मानदण्ड आसीत्तत्र पराभिप्राय एवाऽधुना मानदण्डायते । प्रभूतो बाह्यो वैज्ञानिको वा विकासो जातोऽस्ति किन्तु तदर्थं तादृशानामुदात्तानां परिस्थितीनां वातावरणानां विचारसरणीनां यो हासः सम्पादितस्तस्य पूर्तिस्त्वेतादृग्भिर्विकाससहरैरपि न कर्तुं शक्या । काचसहस्राण्यपि
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156