Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (६।२।४९।।) इति 'श्रीसि० 'सूत्रेण 'पा०' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [४।३।१४४॥] इति सूत्रेण च 'अणमेयेकण्ननञ्टिताम्' । (२।४।२०।।) इति 'श्रीसि० 'सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रच्तयप्ठक्ठकञ्चरपः' पर [४।१।१५।।] इति 'पा० 'सूत्रेण च ङीपि धातुमयी । तस्यां धातुमय्यां-गैरिकादिधातुप्रचुरायाम्। पर्वतमधिरूढा ऊर्ध्वभूमिरिति 'उपत्यकाधित्यके' (७।१।१३१॥) इति 'श्रीसि०'सूत्रेणाऽधित्यकेति निपातः । “अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'पा० 'मते । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' [५।२।३४॥] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः । * पर० अक० सेट्धातोः अप्रत्यये, 'पा०'मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम्। "प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं । स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुन्निद्र-विमुद्रहसितानि । च" इति हैम: । 'त्रिफला-विशरणे' इति धातोः कर्तरि ते 'उत्पस्यातः' [७।४।८८1] - इति ‘पा० 'सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । ___रुणद्धि व्रणमिति रोध्रः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्व-शावरमार्जनाः" इति हैम:' । 'पा० 'मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । द्रुः पर ॐ शाखाऽस्त्यस्येति ‘धुद्रुभ्याम्' ।। ७४४।। इति 'उणादिश्रीसि०' सूत्रेण 'द्रु-गतौ' धातौः का * डिति उप्रत्यये दुः-वृक्षशाखा वृक्षश्च । “वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिद्रुर्दुमो, र जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, नन्द्यावर्त-करालिको तरुवसू पर्णी पुलाक्यंहिपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैम:५ । वृक्षे तु "आरोहकः स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श* अवलोकयामास ॥ १. अभि० चि० च० १०३५ । ३. अभि० चि० च० ११२७-२८-२९ । ५. अभि० चि० च० १११४ । २. अम० द्वि० शैलवर्गे -८ । ४. अभि० चि० च० ११५९ । ६. अभि० चि० हैमशेषे-१७३-१७४ । | ९३ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156