Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ भो भोः प्रजापते राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निघृणेन सहस्रशः ।।१।। एते त्वां संप्रतीक्षन्तो स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दन्त्युत्कटमन्यवः ॥२।। शिवपुराणादिष्वपि एवमेव यज्ञीयाया अपि हिंसाया मांसभक्षणस्य च निषेधो * दरीदृश्यते । ग्रन्थगौरवभयान्नाऽत्र लिखितः । विशेषजिज्ञासुना तत एवाऽवसेयम् । __ यवनशास्त्रेऽपि कुत्र कुत्रचिज्जीवहिंसानिषेधः प्रतिपाद्यते । तथा हि जरथोस्तिधर्ममान्ये शाहनामा इति विदिते ग्रन्थे एवं प्रतिपादितम्-'अस्माकं जरथोस्तिधर्म एवं पावनः (नेक) यत्पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या' । तथा च । ( तद्वचांसि तदीयशब्दैः - "नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" । पारसिकानां 'इजस्ने'नामकधर्मपुस्तकस्य द्वात्रिंशे त्रयस्त्रिंशे चेहानामके विभाग की अवस्ताभिधया तदीयभाषया प्रोक्तम् "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम। - अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम । मन तू ईअशते वीशपे का म जेशतेम शराशेम जवीया अउ अंबानो" । अस्याऽर्थः - 'ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये वा तान WE छित्त्वा भक्षणायाऽऽदिशति(न्ति) ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्या' इति कथितम् ।। ( यद्वा ते दुष्टा दूरीकर्तव्या इति कथितम् । 'ये जनाः पवित्र(नेक)निर्देशानवगणय्य ‘पशून, छित्त्वा भक्षणं विधास्याम' इति दुष्टविचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुंग अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते' । अन्यदपि जमीयादयस्तनामकस्याऽष्टपञ्चाशे आलापे(फकरो) जरथोस्तप्रभृतिषु र IS तदीयधर्मपुस्तकेषु च पशुहिंसाया मांसभक्षणस्य च दृढतया निषेधो वरीवति । किञ्च ते १०१ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156