Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ SY 'निवृत्तिस्तु महाफला' इत्यस्य तु यथाश्रुतमेवाऽर्थः । मांसशब्दार्थोऽपि मांसभक्षणं निषेधयति । तथा चाऽऽह मां स भक्षयित्वाऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति । 9 एवमेव श्रुतिवचनान्यप्यसमञ्जसानि । “वायव्यं पशुमालभेत भूतिकामः, स्थूलपृषतीमाग्नि* वारुणीमनड्वाहीमालभेत" इति पतञ्जलिप्रणीतमहाभाष्योद्धृतश्रुतिवाक्यम् । एवं बहुशो में - वेदे सर्वत्र स्थाने स्थाने हिंसाप्रतिपादकानि वचांसि श्रूयन्ते । ननु कथं वेदात्मके शास्त्रे एवं प्राणिव्यापादनस्वरूपं श्रूयते इति चेत् । * प्राचीनानामहिंसाप्रधानानां भरतप्रणीतानामार्यवेदानां लोपे मांसलुब्धादिभिस्तन्नाम्नैव तस्य । SP प्रणीतत्वात् । संभाव्यते चैतत् यत् अत एव श्रुति'रिति तस्य नाम । श्रुतिशब्दः श्रवणश्रुतिरिति । शब्दशक्तिबलादेव ज्ञापयति । पूर्वमार्या अहिंसापरायणास्तत्तद् हिंसासूचकं वचोऽभिगम्य तान्प्रपच्छुर्यदुत ‘मा हिंस्यात् सर्वभूतानि' इति सर्वजनविदितमहावाक्यविरोधिवाक्यानि हो 2 हिंसात्मकानि उपदिश्यन्ते तत्र किं प्रमाणम् ? तदा ते उत्तरदानाक्षमा ऊचुः-"अस्मा* भिरेतच्छ्रुतमेतच्छुत''मतस्तस्य श्रुतिरिति नाम संवृत्तम् । कथं तत्प्रमाणीक्रियेत? __ अथाऽस्त्वेतत् । किन्तु मन्वादिभिस्तु मांसभक्षणबहुला प्रजामुपलभ्य तां नियमितुमेवमुक्तं यद्, 'मांसं चेत् भक्षयतु तदा यज्ञ एव नियुक्तीभूय नेतरथा' इति नियम सूचयति । तदप्यसाम्प्रतम् । मांसभक्षणाकरणे प्रत्यवायस्य नियुक्त स्त्वित्यादिवाक्येनाऽप्रतिपादनान्न मनुवचनानि निषेधैदम्पर्याणि किन्तु मांसभक्षणप्रवर्तकानि । तद्वचनानामपि . स्मृत्यभिधात्वेन प्रमाणाभाववन्त्येव शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च । यत् तत्राऽपि या A पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् ‘एवं मे स्मृतम् एवं मे स्मृतम्' इति । और ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणर' त्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्हाणि तद्वचनानि । 'मा हिंस्यात् और | सर्वभूतानि' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्ती| मार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसां प्रथमतयैवमनुमन्यामहे' इति । HOBH Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156