Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ - विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । * किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु र विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं ‘मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः । कलिकालसर्वज्ञबिरुदधारिणः श्रीहेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्त: 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छन्नरक्षो न जैमिनिः' । किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती'ति चेद् युष्मत्सिद्धान्तस्तदा । स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टम्? । न तेषु ते भक्तिः । अपि च, यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ? आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति । येषु केषुचिदन्यदृशांक ॐ शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयताHदर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ।। इति । शान्तिपर्वण्यपि अहिंसा सर्वजीवानां सर्वजैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ।।१।। यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥ भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये | वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । NeAE - १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156