Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ इति प्रपूर्वात् जन्धातो: 'क्वचित्' (५|१|१७१ | | ) इति 'श्रीसि० ' सूत्रेण प्रत्यये प्रजा । " सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैम:। “प्रजा स्यात् सन्ततौ जने" इत्यमरश्च । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, . प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥५४७॥ इति 'उणादिश्रीसि० 'सूत्रेण 'मह - पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च । " कृताभिषेका महिषी" इति हैम: । 'नृपस्त्रीत्युत्तरत:: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वृत्तिः । " कृताभिषेका महिषी". इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो ङि ( ङी) पि महिषी । 'राज्ञः कृताभिषेकायां' • महिषजातिस्त्रियाम् औषधिभेदे च' । अत्र तु पट्टराज्ञी महिषी, तया महिष्या । सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । “साकं सत्रा समं सार्धममा सह” इति हैमः५ । ‘यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि • नभसा समम्" । 'ज्योत्स्न्य (न्या) माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" । 'सममेव समाक्रान्तं द्वयम्' इति रघु: [ सर्ग - ४ श्लो०४] । अत्र समं सह । व्रियते उपवासाद्यत्रेति 'पृषि - रञ्जि - सिकि-का- ला-वृभ्यः कित्' ॥२०८॥ इति'उणादिश्रीसि० 'सूत्रेण 'वृगट्-वरणे' इति धातो: किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । "नियमः पुण्यकं व्रतम्" इति हैम: । जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । • देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा, अपि व्रतानि गीयन्ते । " व्रतं लक्षणभेदे पुण्यसाधने उपवासादिनियमभेदे च " । अत्र तु - जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् । धारयतीति चुरादि'धृ' धातो: णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतःअनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मह् - पूजायां' धातोरनीयप्रत्यये महनीया १. अभि० चि० तृ० ५०१ । ३. अभि० चि० तृ० ५२० । ५. अभि० चि० ष० १५२७ । Jain Education International २. अम० तृ० नानार्थवर्गे ३८ । ४. अम० द्वि० मनुष्यवर्गे - ५ । ६. अभि० चि० तृ० ८४३ । ६८ For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156