Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ E "भावहावहेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति वा भावः-अभिप्रायः पुंक्लीब लिङ्गः । "छन्दोऽभिप्राय आकूतं मतभावाशया अपि" इति हैम: । "भावोऽभिप्राय HP आशयः" इति च यादवः । 'पाणि'मते तु भावः पुंलिङ्गः । भावयति चिन्तयति र र पदार्थान्, चुरादिभूधातोरचि, भौवादिकात् णो वा । नाट्योक्तौ-नानापदार्थचिन्तके पण्डिते । भावयति ज्ञापयति हृदयगतम्, भू-णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ, व्यभिचारिभावे । भू-भावे घञ्, शुद्धधात्वर्थे-यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थः, एवमेव विक्लित्त्यनुकूलव्यापारो घबर्थः । “साध्यरूपे सिद्धरूपे वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे च"। अत्र तु | रागार्थ आशयार्थो वा । तं भावम्-अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायांकन सन्नतत्सनः' (३।४।२१।।) इति 'श्रीसि०'सूत्रेण ज्ञाधातोः इच्छार्थे सन्, ततः 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०॥) इति 'श्रीसि०' सूत्रेणाऽऽनशि 'अतो म आने' (४।४।११४॥) इति को | 'श्रीसि०' सूत्रेण मकारागमे आपि च जिज्ञासमाना। 'पाणि०' मते च 'धातोः कर्मणि(णः) समानकर्तृकादिच्छायां वा' [३।१७।] इति सूत्रेण सन्, 'ज्ञा-श्रृ-स्मृ-दृशां सनः' [१।३।५७||] 14 इति सूत्रेणाऽऽत्मनेपदम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे' [३।२।१२४॥] इति । सूत्रेण शानचि, 'आने मुक् च (मुक्) [७।२।८२॥] इति सूत्रेण मुगागमे टापि च । जिज्ञासमाना-ज्ञातुमिच्छन्ती (सती) । - गच्छति समुद्रमिति 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदि-छो-गडिखडि-गृ-भृ-वृ-स्वृभ्यो गः' ॥९२॥ इति 'उणादिश्रीसि०' सूत्रेण गप्रत्यये 'पाणि०'मते में च गन्प्रत्यये गङ्गा-देवनदी स्त्री० । "गङ्गा स्वनामख्याते, नदीभेदे" । "गङ्गा त्रिपथगा और र भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैम: । प्रपतन्ति र ' अस्मिन्निति 'पत्रों-पतने' धातोः 'व्यञ्जनाद(द् घञ्)' (५।३।१३२।।) इति 'श्रीसि०' सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकत्रोर्घञ् (कोंः) (५।३।१८।।) इति 'श्रीसि०'सूत्रेण घजि प्रपातः । "प्रपातस्त्वतटो भृगुः" इति हैम: । र १. अभि० चि० तृ० ५०९ । २. अभि० चि० १० १३८३ । * ३. अभि० चि० च० १०८१-८२ । ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156