Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ [ ७|२|१४|| ] इति 'पाणिनीयसूत्रेण च इग्निषेधे 'सूयत्याद्योदितः' (४/२/७०|) इति 'श्रीसि० हे०श०' सूत्रेण 'ओदितश्च' (८|२|४५ ||) इति 'पाणिनीय' सूत्रेण च तस्य 'नत्वम् । आपीन: पुंक्लीबलिङ्गः । आपीनम् ऊधः । " ऊधस्तु क्लीबमापीनम्" इत्र्त्यमरः । "आपीनमूधः" इति हैमः । आपीनस्य भारः आपीनभारः । उत्- ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम् आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्व- हनप्रयत्नः, तस्मात् आपीनभारोद्वहनप्रयत्नात् । वपुषः, उप्यन्ते देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातोः उसि वपुस् । “ वपुः शरीरे, प्रशस्ताकारे च" । तस्य वपुषः - शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् - गुरुत्वात् - स्थौल्यात् । अञ्च्येते इति पूजार्थक' अञ्च' धातोः कर्मणि वर्तमाने के, ताभ्याम् - अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्ति: । तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथ:, तं तपोवनावृत्तिपथम् । 'ऋक्पूः पथ्यपोऽत् (७|३|७६ ||) इति 'श्रीसि० हे० श०' सूत्रेण, समासान्तोऽत् । ऋक्पूरब्धूः पथामानक्षे [ ५/४/७४ || ] इति 'पाणिनीय' सूत्रेण च समासान्तो 'अ' प्रत्ययः । अलञ्चक्रतुः - भूषयामासतुः ॥ वाच्यपरिवर्तनं त्वेवम् गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् पुष गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथ: अलञ्चक्रे ।। सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥१८॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥ वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (७|३।९।।) [सि०] इति इष्ठे ‘विन्-मतोर्नि (र्णी) ष्ठे [ यसौ लुप् ] ' [७|४|३२||][सि०] इति मतोर्लुपि 'त्रन्त्यस्वराऽऽदेः' (७|४|४३||) [सि०] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानि:' ( ७।३।१६४ | | ) इति [ सि०] सूत्रेण जान्यादेशे अरुन्धतीजानिः । १. अम० द्वि० वैश्यवर्गे - ७४ । २. अभि० चि० चतु० १२७२ । Jain Education International ३९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156