Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥ स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि । शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिकनिष्कर्षः । एवं च तच्छब्दस्य का * बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणी
भूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात
तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः । |
उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्ति-खनन्ति भूमिम् - कि इति वराहः, आपर्वात् (हन्) धातोः 'ड:' "शूकरे स्त्रियां ङीप्, यज्ञवराहाख्ये,
विष्णोरवतारभेदे पुं० पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" | वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति ‘पल्-गतौ' पल्धातोः 'शमिकमिपलिभ्यो । वलः' ।४९९॥ इति औणादिके वले पल्वलः पुंक्लीबः । “वेशन्तः पल्वलोऽल्पम्" इति का हैम: । अल्पं- सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु । तानि पल्वलो-त्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बहिणः । "मयूरो बहिणो बही"
इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्यः । आ समन्ताद् वसन्ति लोका येषु ते । M आवासाः । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । र आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि । * निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः'
(६।२।७५॥) इति 'श्रीसि०हे०श०' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद् वे(ड्व)लची
[४।२।८८॥] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः ।] "शाद्वल: शादहरिते शादः । कर्दमशष्पयोः" इति विश्वः । "शष्पकर्दमयोः शादः" इति शाश्वतः । अध्यास्यन्ते स्मेति र - अध्यासिताः। मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि. मृगाध्यासितशाद्वलानि ।
वराहबहिणशष्पादिमलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामायमानानि १. अभि० चि० चतु० - १०९५ । '२. अम० द्वि० सिंहादिवर्गे - ३२ ।
antiye
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156