Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ - तु देहावयवभेदो हस्तः । साक्षतपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयो: यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयो: यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । प्रशस्तं पयोऽस्त्यस्याः सा पयः शब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम् - प्रशस्त क्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य - परिक्रम्य । प्रणम्य च । अस्याः धेन्वाः 'वेर्विशाशङ्कटौ (७|१|१२३ ॥ ) इति 'श्रीसि० 'सूत्रेण विशालं विशङ्कटं . साधू । “विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं, विस्तीर्णं ततं बहु महद् गुरु" इति हैमः । "विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" - इत्यमरेः । शृणातीति शृङ्गम्- 'शृङ्गशार्ङ्गादय: ॥ ९६ ॥ इति ' उणादिश्रीसि० 'सूत्रेण शृधातोर्गान्तो निपातः । “विषाणं कूणिका शृङ्गम्" इति हैमः । शीर्यते निर्घातेनेति वा शृङ्गम्- शिखरम् । " शृङ्गं तु शिखरं कूटम्" इति हैमः । अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे ह्रस्वे च "शृङ्गं न० पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी' ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेर्विषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊर्ध्वे, तीक्ष्णे, . पद्मे च; कूर्चशीर्षकवृक्षे च पुं०" । अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गारन्तम्,. शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थ: । 'कमि-प्रु-गार्तिभ्यस्थः ' ॥२२५॥ इति 'उणादिश्रीसि० ' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थ: । "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैम:' । अथवा 'अर्थ - याचने' अदादिः चुरादि: आत्म० द्वि० सेट्, अर्थयते आर्तिथत् - मतान्तरे अर्थापयते आर्तथापत इति " अर्थ: पुंभावकर्मादौ यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ हेतौ प्रकारे, अभिलाषे, उद्देश्ये तु" । अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । " १. अभि० चि० ष० १४२९-३० । ३. अभि० चि० च० १२६४ | ५. अभि० चि० ष० १५१४ । Jain Education International २. अम० तृ० विशेष्यनिघ्नवर्गे-५८ । ४. अभि० चि० च० १०३२ । ४६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156