Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"उपपन्नं ननु शिव"मिति रघुः [सर्ग-१ श्लो०६०]। विधीयते इति 'उपसर्गादातः'
(५।३।११०।।) इति 'श्रीसि०'सूत्रेण विपूर्वात् धाधातोः अङि विधा । "कर्म क्रिया विधा" को इति हैम:' । 'पाणिनीय'मते तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर० सक० को
सेट् । विधतीति विधा । विध्धातोः कः अच्चेति "विधः पुंस्त्रीलिङ्गः । “विधाने,
गजभक्ष्यान्ने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने कर्मणि च" स्त्री० । अत्र तु प्रकारार्थः । * 7 तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः ।
प्रसदनमिति प्रपूर्वात् सद्धातो वे घबि प्रसादः । “नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" । अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन
नग्न-फेन-चिह्न-अध्न-धेन-स्तेन-च्यौक्नादयः' ॥२६८॥ इति 'उणादिश्रीसि०'सूत्रेण । * चहेर्धातो-रिदुपान्त्यो नान्तो निपातः । “चिह्न, लक्षणं लक्ष्म लाञ्छनम्; अङ्कः । कलङ्कोऽभिज्ञानम्" इति हैम: । 'पाणि 'मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ० सक०
सेट्धातोरचि, यद्वा चधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा । - चिह्नानि । “चिह्न न० लाञ्छने लक्षणे च" । प्रसादस्य चिह्नानि-लिङ्गानि-पूजास्वीकारादीनि र प्रसादचिह्नानि। फलन्तीति फलम् । “लाभोऽधिकं फलम्" इति हैम: ।
फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः ॥ इति अनेकार्थसङ्ग्रहः । |
'पाणि'मते तु 'फल-निष्पत्तौ' भ्वादिः पर० अ० सेट्, 'फल्-भेदने गतौ च' और र भ्वादिः पर० स० सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फल्धातोरचि फलम् । “फलं कि
वृक्षादीनां सस्ये, लाभे, कार्ये, उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, र OF फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते)
"चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" । पुरःफलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बित- फलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ।
१. अभि० चि० ष० १४९७ । ३. अभि० चि० तृ० ८६९ ।
२. अभि० चि० द्वि० १०६ । ४. अनेकार्थसङ्ग्रहे तृ० ४८७ ।
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156