Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्य" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेतिपूतानि-शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा-विधाय । द्यति तमः, दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा “दिननग्न[ फेन-चिह्नबध्न-धेन स्तेन-और
च्यौक्नादयः]'' ॥२६८।। औणादि०सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । “तत्रऽहर्दिवसो का * दिनम्, दिवं धुर्वासरो घस्रः" इति हैम: । दिनस्य अन्तो दिनान्तः, तस्मिन् दिनान्ते- सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातोः अचि निलयः । "गृहे, आवासस्थाने च" । तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे(य)व गन्तुं प्रचक्रमे-उपक्रान्तवती।
'प्रोपादारम्भे (३।३।५१॥) इति श्रीसिव्हेश०' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [१।३।४२॥] - । इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥
वाच्यपरिवर्तनं त्वेवम्-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि * सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ।।
अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्तभागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी * च जाता, इति सरलार्थः ॥१५॥
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥ तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घत्रि लोकः । मध्यमश्चाऽसौ लोकश्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपाल:मर्त्यलोकाधिपः । देवन्ते इति देवाः, देवा एव देव्धम्तोः स्वार्थे तलि देवताः । "क्वचित्र
स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते'' इति भाष्योक्तेः स्त्रीत्वम् । के 'देवता इन्द्रादौ सुरे' । पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति का * एकत्रेति अत्धातोः इथिनि अतिथयः । “अतिथिः अध्वयोगेन, आगन्तुके, गृहागते, विषये सब
च" । तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थिति!त्तरकालमिति गतिः अनुमीयते ।
१. अम० तृ० नानार्थवर्गे - १९५ । * २. अभि० चि० द्वि० - १३८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156