Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ . न । कुत: ? हि यस्मात्कारणात् । मनोः । प्रसूयत इति प्रसूतिः - सन्ततिः । स्वस्य वीर्यं स्ववीर्यम् । गुप्यते स्मेति गुप्ता । स्ववीर्येण गुप्ता स्ववीर्यगुप्ता, स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहस्य परापेक्षेति भावः । वाच्यपरिवर्तनं त्वेवम्-व्रताय धेनोरनुचरः स शेषमप्यनुयायिवर्गं न्यषेधीत् । तस्य, शरीररक्षया(रक्षा) चाऽन्यतो न क्षूयते । हि मनोः प्रसूत्या स्ववीर्ये (र्य) गुप्तया भूयते ॥ व्रतपालनार्थमेवाऽरण्ये गामनुगच्छन्नृपतिः प्राग्महिषीं निवर्तयामास । पश्चादन्यानपि .सेवकाननुचलनान्निवारितवान् । एकाकिनोऽपि तस्य दिलीपस्य निजरक्षणविधौ का प चिन्ता न बभूव । यतो मनोः कुलधराः नृपाः स्वबाहुबलेनैव सर्वत्र निजरक्षां कुर्वन्ति इति - सरलार्थः ॥४॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥५॥ आस्वादवद्भिरिति । सम्यग् राजतेऽसौ सम्राट् - मण्डलेश्वरः । “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । स राजा । आस्वादनमास्वादः । आस्वादो विद्यते एषां आस्वादवन्तः, तैः आस्वादवद्भिः-रसवद्भिः • स्वादयुक्तैरित्यर्थः । तृणानां घासानाम् । “शष्पं बालतृणं घासः" इत्यमरः । केन मुखेन वलन्त इति कवलाः । 'कै (कै) शब्दे, कच् - दीप्तौ' वा, 'डे' कः । 'को ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्ये, अग्नौ, विष्णौ, काले, कामग्रन्थौ, राजनि, मयूरे, देहे, • मनसि, धने, प्रकाशे, शब्दे च पुं० । मुखे, शिरसि, जले, रोगे च नपुं०' । तैः कवलैःग्रासैः। “ग्रासस्तु कवलः पुमान्" इत्यमरः । कण्डूयनानीति कण्डूयनानि । तैः कण्डूयनैः । - दशन्तीति दंशाः । दंशानां - वनमक्षिकाणां निवारणानि दंशनिवारणानि, तैः दंशनिवारणैः । "दंशस्तु वनमक्षिका” इत्यमरः । विशेषेण आ समन्तात् हन्यन्ते स्मेति व्याहतानि । न व्याहतानि अव्याहतानि तैः अव्याहतैः, अप्रतिहतैः । स्वैरं गमनानि स्वैरगतानि । अथवा . ईरणं ईर:, स्वस्य ईरः येषु तानि स्वैराणि । अथवा स्वेन स्वातन्त्र्येण ईरते इति वा, १. अम० द्वि० क्षत्रियवर्गे ३. अम० द्वि० वैश्यवर्गे Jain Education International - ३ । ५५ । २. अम० द्वि० वनौषधिवर्गे - १६७ । ४. अम० द्वि० सिंहादिवर्गे २९ । २० For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156