Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था । निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (५|१|१४|| ) इति 'श्री सि०हे० श० 'सूत्रे आदिशब्देन ' . पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधर - विषधर - शशधर-विद्याधर श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण्)' (३||१||) इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । " स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि० हे० श० 'मते अपयोधराः पयोधराः भूता: ( भवन्ति स्म ) पयोधरीभूताः 'पाणिनीय' - मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्वि:' ( ७ २ १२६ | | ) इति श्रीसि० हे० श० ' सूत्रेण 'च्वि:' । 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' (पा० ५|४|५०|) । 'च्विविधावभूततद्भावग्रहणं' • इति वार्त्तिकोक्तेऽर्थे च्विः । ' श्री सि०हे० श० 'मते 'अप्रयोगीत्' (१|१|३७||) इति सूत्रेण, च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( टू ) ' (१|३|७|| ) इति विप्रत्ययगतचकारस्येत्संज्ञा । - वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' (६ | १|६७ ||) इति सूत्रेण वकारस्य च लोपः 'प्रत्ययलोपे प्रत्ययलक्षणम्' (पा० १ २२६२ || ) इत्यनेन च्व्यन्तत्वं कल्पनीयम् । ततश्च ''ईश्च्वाववर्णस्याऽनव्ययस्य' ( ४ | ३ | १२७ (१११ ) | ) इति 'श्री सि० हे० श० 'सूत्रेण 'अस्य' . च्चै (च्वौ)' (७|४|३२||) इति पा० ' सूत्रेण च पयोधरघटकाकारस्य ई: । 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (३|१|२||) इति 'श्रीसि० हे० श० ' सूत्रेण 'ऊर्यादिच्विडाचश्च' (१|४|६१ || ) इति 'पा०' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (३|१|४२ ॥ ) इति 'श्रीसि० हे०श०' सूत्रेण 'कुगतिप्रादयः' (२|२|१८|| ) इति पा० ' सूत्रेण च समासः । समीचीना उद्रा-जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । . पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (३|१|२२|| ) इति 'श्रीसि० हे० श० 'सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' (२२|२४|| ) इति पा० 'सूत्रेणा - ऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । १. अम० तृ० नानार्थवर्गे - १७१ । Jain Education International १८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156