Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 50
________________ अञ्चलगच्छीय आचार्यश्रीमहेन्द्रसूरिकृतं स्वोपज्ञवृत्तियुतं ॥ मन:स्थिरीकरणप्रकरणम्।। ।।श्री।। नमः श्रीमद्देवगुरुपदपङ्कजेभ्यः।। प्रणिपत्य जिनं वीरं मन:स्थिरीकरणदुर्गमपदानाम्। पर्यायमात्रलिखनं विदधे स्वपरोपकाराय।। इह मन:स्थिरीकरणप्रकरणप्रारम्भे शिष्टसमयपरिपालनार्थं मङ्गलाभिधेयप्रयोजनसम्बन्धप्रतिपादिका तावदादाविमां गाथामाह [मूल] नमिऊण वद्धमाणं, चलस्स चित्तस्स किंचि थिरकरणं । सपरोवयारहेडं, गुरूवएसेण वोच्छामि ।।१।। व्याख्या] नमिऊणत्ति। नत्वा श्रीवर्धमानं = श्रीसिद्धार्थभूपालनन्दनं चतुर्विंशतितमजिनम्। चलेत्यादि। इह हि समदकरिकर्णाघात इव, निजरङ्गरङ्गत्तुङ्गतुरङ्गवालधिरिव महाकल्लोलिनीहृदयदयितकल्लोलमालेव, प्रासादोच्चस्तरशिखरशिरोऽग्रभागप्रतिष्ठितध्वजदण्डाग्रावस्थिताखण्डवैजयन्तीपटप्रान्त इव प्रायेण सर्वस्यापि चञ्चलस्वभावं चेतः। कपिवच्च बहिर्विषयव्यापार विना कदाचिदपि स्थिरं न भवति। ततः तज्जिनोपदेशरज्जुभिः सम्यग् नियम्य शुभध्यानारामे रमयितव्यमिति श्रुतोपदेशः। ततोऽत्रापि तस्यैव सदैव चञ्चलस्वभावस्य विषयव्यापरणशीलस्य चेतसः, किञ्चिदिति अल्पाल्पं न पुनर्विस्तरेण स्थिरीकरणमिति स्थैर्यहेतुं उपदेशं स्वपरोपकारहेतवे गुरूपदेशेन वक्ष्यामीति सम्बन्धः। यस्माच्च मन:स्थिरतया सद्ध्यानवृद्धिस्तया च क्रमेण दुष्टाष्टकर्मक्षयः तस्माच्च नित्यानन्दमयमहानन्दपदप्राप्तिरित्यतो भवति मन:स्थिरीकरणप्रकरणं स्वपरोपकारकारणमिति। अत्र च प्रथमपादेन विघ्नव्रातविघातनिमित्तेनेष्टदेवतास्तवनेन मङ्गलमुक्तम्। द्वितीयेन प्रेक्षावत्प्रवृत्त्यर्थमभिधेयमभ्यधायि। तृतीयेन तु प्रयोजनम्, तच्च द्विधा-कर्तृगतं श्रोतृगतं च। द्विविधमपि अनन्तरपरम्परभेदात् पुनर्द्विधा। तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहः। श्रोतुश्च मन:स्थिरीकरणप्रकरणार्थाधिगमः। परम्परन्तु द्वयोरपि मन:स्थिरताहेतूनां प्रकाशनपरिज्ञानाभ्यां परमपदप्राप्तिरिति। चतुर्थांशेन पुनरागमानुसारिणः प्रति गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादाख्यातः, तर्कानुसारिणः प्रति तु प्रकरणप्रयोजनयोरुपायोपेयलक्षणः प्रकरणाभिधेययोश्च वाच्यवाचकस्वरूप: स्वत एव भणनीय इति गाथार्थः।।१।। इह हि अति गम्भीरापारसंसारपारावारविहारिणा भव्यजन्तुना कथमपि चोल्लकादिभिर्दर्शभिर्दृष्टान्तैरतिनिबिड - शैवलवलयाच्छादितमहाहृदविवरविनिर्गतग्रीवकच्छपेनेव निरवकरकरनिकरप्रसरविधुरितान्धकारतारतारकनिकर-परिकरितकौमुदीशशाङ्कमण्डलदर्शनमिवावाप्यातिदुःप्रापां जिनधर्मान्वितां मानुषत्वादिकां समग्रसामग्री सपदि नित्या-नन्दपरमानन्दपदप्राप्तये कर्मक्षपणाय यतितव्यम्। तस्य च यद्यपि

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207