Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
मन:स्थिरीकरणप्रकरणम्
वा बहुविधं भाषमाणो यदि किमपि घुणाक्षरन्यायेन सत्यमपि ब्रूते तदपि असत्यमेव, दुष्टाशयत्वात्। अथवा सगुणमपि क्रोधाभिभूतो निर्गुणं वदति। यथा साधुमपि चौरम्, अदासमपि दासं, पण्डितमपि मूर्खमित्यादि।
मानादसत्यम्। यथा मानाध्मातः कश्चिदल्पविभवोऽपि केनचित् पृष्टः सन् आत्मोत्कर्षेण अननुभूतमपि विभवादि अनुभूतमिति प्रकाशयति।
__मायया असत्यम्। यथा परस्य वञ्चनार्थं नात्रकाणि' योजयति। कूटं क्रयं कथयति, स्वकीयं क्रयाणकं प्रशंसति, परकीयं निन्दति। इन्द्रजालिकवेषकरदृष्टिबन्धादि।
लोभादसत्यम्। यथा लुब्धनन्दस्येव सुवर्णमपि लोह भणतः। अज्ञानदातॄणां वा सत्कं रत्नमपि पाषाणम्, कर्पूरमपि लवणम्, पट्टसूत्रमपि सण(शण) इति भणतः।
प्रेमतोऽसत्यम्। यथा- अइपेमेणं दासोऽहं तव त्ति। द्वेषादसत्यम्। यथा तीर्थकरादीनामपि निन्दा करोति। अदिन्नदाणा खु एए वराया केवलमेएसिं सत्थयायारेण गलओ चेव न मोडिओ त्ति। ()
हासादसत्यम्। यथा हास्येन सार्थवाहम् अकालगतमपि सार्थवाहिन्या अग्रतः कालगतमिति भणतां तन्मित्राणाम्, कन्दर्पिकाणां विदूषकाणां (नां) च हास्यादभूतं वदताम्।
भयादसत्यम्। यथा स्वाम्यपि तस्करादिभयेन 'कर्मकरोऽहम्' इति वदति। 'प्राहुणकोऽहम्' इति। राजपुरुषगृहीतचौरो वदति ‘नाहं चौरः'। यथा रौहिणेयः असद्भूतानि बहुविधानि भाषते।
आख्यायिकारूपमसत्यम्। आख्यायिका = कल्पितकथा तत्प्रतिबद्धोऽसत्प्रलापः सर्वोऽपि। यथा वा धूर्ताख्यायिकासु कमण्डलमध्ये षण्मासानग्रतो नि
तेषां कटतटभ्रष्टैर्गजानां मदवारिभिः । प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी। ( )
उपघातनिश्रिता यथा 'चौर एष याति,' 'एते हरिणा गच्छन्ति', महाराजिकत्वादि सर्वमपि चाभ्याख्यानवचनम्। ‘सर्वे जीवा न हन्तव्याः' इति वा वक्तव्ये ‘ब्राह्मणो न हन्तव्यः', 'गौरवध्या' इत्यादि वदन् शेषजीववधम् अर्थापत्त्या पोषयति।
अथ मिश्रम्। तत्र उत्पादाश्रितं मिश्रम्। यथा ‘अत्र नगरे अद्य दश दारका उत्पन्नाः' इत्यभिदधतस्तन्यूनाधिकत्वे अस्य मिश्रता। व्यवहारे वा कस्यचित् शतमुत्पन्नम्। द्वितीयो वदति अनेन पञ्चशतानि विवपितानि। शतस्योत्पन्नत्वात् मिश्रता।
विगताश्रितं मिश्रम्। यथा- 'अत्राद्य दश वृद्धा विगताः' इति भणतस्तन्न्यूनाधिकत्वे मिश्रता। यथा वा मार्गे पतिते स्तोकेऽपि गते 'बहतरं गतम' इति वदति।
उत्पादविगमोभयाश्रितं मिश्रितम्। यथा- ‘अत्राद्य दश दारका उत्पन्ना दश च वृद्धा विगताः' इति भणतस्तन्न्यूनाधिकत्वे उभयमिश्रता।
जीवाश्रितं मिश्रं जीवविषयं सत्यासत्यरूपम्। यथा जीवन्मृतककृमिराशौ- ‘सर्वे (ो)ऽपि जीवराशिरयम् ' इति भणतः।
अजीवाश्रितं मिश्रम् । यथा तस्मिन्नेव प्रभूतमृतकम(मि)राशौ ‘अजीवराशिरयम्' इति भणतः।
१ नातरां (=सम्बन्धः) इति भाषायाम् ।
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207