Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 128
________________ मन:स्थिरीकरणप्रकरणम् ___ भूतेषु = जन्तुष्वनुकम्पा यस्य स भूतानुकम्पः। व्रतेषु = महाव्रतादिषु योगेषु = चक्रवालसामाचार्याद्याचरणरूपेषूद्यतो व्रतयोगोद्यतः। खंतिदाण त्ति। लुप्तमत्वर्थीयत्वात्क्षान्तिदानवानित्यर्थः। गुरुभक्तश्च। किमित्याह- बध्नाति भूयोऽतितीव्र सातवेदनीयम्। उक्तगुणवैपरीत्ये तु बध्नाति, किमित्याहइतरदसातवेदनीयमित्यर्थः। इदमुक्तं भवति- सानुकम्पतया, दृढधर्मतया, संयमयोगकरणशीलतया, कषायजयतया, यथोदितदानश्रद्धालुतया, बालवृद्धग्लानादिवैयावृत्यकरणशीलतया, मातृपितृधर्माचार्यादिभक्तितो, जिनचैत्यपूजया, शुभपरिणामादिभिश्च सातवेदनीयं बध्नाति इति। तथा निरनुकम्पतया, शीलव्रतादिविलोपतो, हस्त्यश्वबलीवर्दादिनिर्दयदमनवाहननिर्लाञ्छनीकरणादिभिः, परसङ्क्लेशोत्पादनेन, सद्धर्मकृत्यप्रमादितया, कषायोत्कटतया, कार्पण्यभावात्, मातापितृधर्माचार्यादिपूज्यजनावज्ञया प्राणिवधादिभिश्च तीव्रमसातवेदनीयं निवर्तयतीति गाथार्थः। मोहनीयं दर्शनचारित्रमोहनीयभेदाद् द्विधा। तत्र दर्शनमोहहेतूनाहअरहंतसिद्धचेइयतवसुयगुरुसाहुसंघपडणीओ। बंधइ दसणमोहं, अणंतसंसारिओ जेण।। (बन्धशतकम्-१८) अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घानां प्रत्यनीको = अवर्णवादाद्यनिष्टनिर्वतको बध्नाति दर्शनमोहं = मिथ्यात्वमोहनीयं कर्म। येन किमित्याह- अनन्तसंसारिको येन बद्धेन भवति जीवः। अन्यच्चोन्मार्गदेशनया, मार्गविप्रतिपत्त्या, धार्मिकजनसन्दूषणया, अदेवगुरुतत्त्वेषु देवगुरुतत्त्वबुद्ध्या, नारकसुरसिद्धादिविपरीतभावनया चैत्यद्रव्यापहारमुनिघातप्रवचनापभ्राजनादिभिस्तीव्र दर्शनमोहमुपरचयतीति गाथार्थः। इदानीं चारित्रमोहस्यतिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो। बंधइ चरित्तमोहं दुविहं पि चरित्तगुणघाई।। (बन्धशतकम्-१९) तीव्राः कषायाः क्रोधादयो यस्य स तथा। मोहशब्देन तु विषयगाध्यालम्बनो मतिविभ्रमो विवक्षित सूत्रश्च(स्ततश्च) बहुमोहपरिणतो विषयगृद्धिविभ्रमितमतिरित्यर्थः। रागशब्देन चेहोद्धरितशेषा हास्यरत्यादयो विवक्ष्यन्ते, द्वेषशब्देन च जुगुप्सादयः। ततश्चोक्तस्वरूपाभ्यां रागद्वेषाभ्यां संयुक्तः। किमित्याह- बध्नाति चारित्रमोहनीयं वक्ष्यमाणशब्दार्थम्। कतिविधमित्याह- द्विविधमपि कषायचारित्रमोहनीयं नोकषायचारित्रमोहनीयं चेत्यर्थः। यत्कथम्भूतम् ? अत्राह- चारित्रगुणं लब्धमपि हन्तीत्येवंशीलं चरित्रगुणघाति यदिति।। अयं च सामान्यार्थः विशेषतस्त्वेवमवगन्तव्यम्- कषायचारित्रमोहनीये क्रोधादयश्चत्वारः कषायाः। तत्र च तीव्रकोपोपयुक्तस्तीव्रकोपमेव बध्नाति। तीव्रमानोपयुक्तस्तु तीव्रमानमेवोपरचयत्येवं मायालोभयोरपि वाच्यम्। नोकषायचारित्रमोहनीये तु वेदत्रयं हास्यादिषट्कं च। अत्रापि कोपनो, अहङ्कारी, परदाररतिप्रियो, न्य(व्य)लीकभाषी, ईर्ष्यालुर्मायाप्रधानसमाचारः स्त्रीवेदम् उपरचयतीति। ऋजुसमाचारो, मन्दकोपो, मार्दवसम्पन्नः, स्वदाररतिप्रियोऽमायावी पुरुषवेदं निवर्तयति। पिशुनो, निर्लाञ्छनबन्धताडनादिरतः, स्त्रीणां नृणामनङ्गसेवनशीलः, शीलव्रतसुस्थितपाखण्डिनां कुयुक्तिभ्यो भोगाभिलाषाद्युत्पादनेन मार्गभ्रंशकारी, तीव्रविषयरतिः नपुंसकवेदं बध्नाति। स्वयं हसनशीलः, परांश्च हासयति, बहुविधं च परविप्लवं करोति, कन्दर्परतिश्च हास्यमोहनीयं बध्नाति। स्वयं च क्रीडति, परांश्च क्रीडयति, दुःखानुत्पादकश्च रतिमोहनीयं बध्नाति। परेषां रतिविघ्नकरोऽरत्युत्पादकः, पापजनसङ्गतिरतिश्चारति मोहानीयं बध्नाति। नष्टमृतादिषु स्वयं शोचति, परांश्च शोचयति, परव्यसनशोकाभिनन्दी शोकामोहानीयं बध्नाति, स्वयं बिभेति, परांश्च भीषयते भयमोहनीयं बध्नाति। स्वयं साधुजनादिकं जुगुप्सते, परस्य जुगुप्सामुत्पादयति, परपरिवादविधिशीलो जुगुप्सामोहनीयमभिनिवर्तयतीति गाथार्थः। नारकादिभेदे

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207