Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
मन:स्थिरीकरणप्रकरणम्
आहारोरलदुगदुग, इत्थीपुरिसूण हेउइगवन्ना । निरए मिच्छे साणे, उ मिच्छपणगूण छायाला ।।१४९।। अण-कम्मण-वेउव्वियमीसं चइऊण मीसए चत्ता । सवेउव्वि मीसकम्मा, बायाला सम्म नेरईए ।।१५०।। उरलदुगाहारदुर्ग, नपुवेयं चइय हेउबावन्नं । मिच्छसुरे साणे पुण, सगचत्ता मिच्छपणगूणा ।।१५१।। कम्मणऽणंत-वेउव्वियमिसूणा मीसयम्मि इगचत्ता ।
वेउव्वि मीसकम्मणजुत्ता तिगचत्त सम्मसुरे ।। १५२।। व्याख्या] सर्वा अपि गाथाः स्पष्टाः। नवरं योऽत्र देवनारकेषु पूर्वं च सझितिर्यड्मनुष्येषु अनाभोगिकमिथ्यात्वसद्भावो विहितः स तस्यैव अनाभोगिकमिथ्यात्वस्य द्वितीयव्युत्पत्त्यपेक्षया द्रष्टव्यस्तथाहि
अणाभोगं एगिदियाईण वि। जम्हा आभोगो नाणं उवओगो भन्नइ। एयं केरिसं ? एयं वत्ति ? एसा पुण तेसिं नत्थि तेण तेसिं अणाभोगं मिच्छत्तं। अहवा सुद्धं परुवइस्सामि अणुवओगाओ असुद्धं परुवियंत पि अणाभोगं परेसिं मिच्छत्तकारणत्तेणं ति। (षडशीतिकचूर्णिः)
तदेवम् अष्टानामपि कर्मणामविशेषेण बन्धजनकत्वात् सामान्यरूपा मूलहेतव उत्तरहेतवश्च प्रतिपादिताः। अथ ज्ञानावरणादिकाया एकैकस्याः प्रकृतेर्यथास्वं बन्धजनकाज्ञानप्रत्यनीकतादयो विशेषहेतवो द्वारगाथायामनुपात्ता अपि हेतुत्वसामान्येन विनेयानुग्रहाय शतकसूत्रवृत्तिभ्यां प्रदर्श्यन्तेपडणीयमंतराइय, उवघाए तप्पओसनिण्हवणे। आवरणदुगं भूओ, बंधइ अच्चासणाए य।।
(बन्धशतकम्-१६) इह प्राकृतत्वादार्षत्वाच्च विभक्तिव्यत्ययादिना तात्पर्यव्याख्या क्रियते। तत्रावरणद्विकं ज्ञानावरणदर्शनावरणरूपम्। अत्र च ज्ञानस्य = मत्यादेर्शानिनां = साध्वादीनां ज्ञानसाधकस्य च पुस्तकादेः प्रत्यनीकतया = तदनिष्टाचरणरूपया ज्ञानावरणं कर्म भूयो = अतितीव्र बध्नातीति सण्टकः। तथा अन्तरायेण = भक्तपानवस्त्रोपाश्रयलाभनिवारणादिरूपेण, उपघातेन = निर्मूलतो विनाशस्वरूपेण, तत्प्रद्वेषेण = ज्ञानादिविषये आन्तराप्रीतिरूपेण, निह्नवेन = 'न मया तत्समीपेऽधीतमिदम्' इत्यादिरूपेण। अत्याशातनया च जात्यायुद्धट्टनादिहीलारूपया तीव्र ज्ञानावरणं बध्नातीति सर्वत्र द्रष्टव्यम्। एतच्चोपलक्षणमात्रमतो ज्ञानावर्णवादेन, आचार्योपाध्यायाद्यविनयेन, अकालस्वाध्यायकरणेन, काले च स्वाध्यायाविधानेन, प्राणिवधा-नृतभाषणस्तैन्याब्रह्मापरिग्रहरात्रिभोजनाविरमणादिभिश्च ज्ञानावरणं बध्नातीत्याद्यपि वक्तव्यमिति।
एवं दर्शनावरणेऽपि वाच्यम्, नवरं दर्शनाभिलापो वाच्यः। तद्यथा- दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां दर्शनसाधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतया तदनिष्टाचरणरूपया दर्शनावरणं भूयोऽतितीव्र बध्नातीत्येवमिहापि सम्बन्धः। एवमन्तरायादयोऽपि हेतवस्तदुचितत्वेनोत्प्रेक्ष्य योजनीयाः। अत्राप्युपलक्षणमात्रममी ततोऽलसतया, स्वप्न(पन)शीलतया, निद्राबहुमानतो, दर्शनिनां दूषणग्रहणेन, श्रवणकर्तननेत्रोत्पाटननासाच्छेदनजिह्वाविकर्तनादिना प्राणिवधादिभिश्च दर्शनावरणं बध्नातीत्याद्यपि वाच्यमिति गाथार्थः। वेदनीयस्य द्विविधस्यापि बन्धहेतूनाहभूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो। बंधड़ भूओ सायं, विवरीए बंधए इयरं।।
(बन्धशतकम्-१७, प्राचीनपश्चमकर्मग्रन्थ-१९)
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207