Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
मन:स्थिरीकरणप्रकरणम्
८२
नादयो द्वादश कषायाः। सत्तायां पुनः क्षायिकसम्यग्दृष्टादश, क्षायोपशमिकौपशमिकदृष्ट्योस्तु षोडशेति।।१५५।।
[मूल] तिरिमणु देसे अट्ठ उ, बंधुदए संति बार खयसम्मे ।
सोल दुसम्मे नरि चउ, पमत्त अपमत्त बंधुदए ।।१५६।। व्याख्या] तिर्यङ्मनुष्यगृहद्वये देशविरतिगुणस्थाने प्रत्याख्यानावरणसज्वलनरूपा(पा अष्टौ कषायाः बन्धोदययोः, सत्तायां पुनः क्षायिके द्वादश। सोल दुसम्मि त्ति। औपशमिकक्षायोपशमिकरूपे सम्यक्त्वे द्वये षोडशेति। अत ऊर्ध्वं केवलमनुष्यगृहवक्तव्यतोच्यते- नरि चउ इत्यादि।।१५६।।
तथा
[मूल] सति बार खयगि सोलस, इयर दुसम्मे ह पुव्वबंधुदए ।
___ चउ तह संते बारस खयगे सोलोवसमसम्मे ।।१५७।। व्याख्या] सुगमा। नवरं क्षायोपशमिकसम्यक्त्वोदयस्य अप्रमत्ते व्यवच्छेदान्न तस्य चिन्तात्र कृतेति ।।१५७।।
तथा
[मूल] नवमगुणे बंधुदया, भागद्गे तइयतुरियपंचमए ।
चउतदुगिक्काण कमा, अह संते खवगसेढीए ।।१५८।। व्याख्या] अस्मिन् गुणस्थानके कर्मस्तवाभिप्रायेण सामान्येन पञ्चभागीकृते, शतकाभिप्रायेण तु सङ्ख्येयभागीकृत्य पुनस्तस्यैव चरमे सङ्ख्येयभागे पञ्चभागीकृते प्रस्तुतौ कषायबन्धोदयौ चिन्त्येते। तत्र नवमगुणस्य प्रथमभागे सम्पूर्णेऽपि द्वितीयभागेऽपि यावत्क्रोधस्य बन्धो न व्यवच्छिद्यते तावच्चतुर्णा प्रस्तावात् कषायाणां बन्धोदयौ सहभाविनौ स्तः। एवं तृतीयभागे यावन्मानस्य बन्धो न त्रुट्यति तावत्त्रयाणाम्, चतुर्थेऽपि यावन्मायाया बन्धो नापसरति तावद् द्वयोः, पञ्चमेऽपि यावद्वादरलोभस्य बन्धो न व्यवच्छिद्यते तावदेकस्यैव लोभस्य बन्धोदयौ स्त इति स्थितिः।
अथ सत्ता चिन्त्यते। सा च सत्ता क्षपकोपशमकसम्बन्धित्वेन द्विधा। तत्र क्षपकाश्रिता तावद् उच्यते। इह हि नवमगुणस्थानके षट्त्रिंशतः प्रकृतिनां सत्ताव्यवच्छेदः। स च न युगपत् किन्तु नवसु भागेषु
सोलस अटेक्किक्कं, छिक्केक्वेक्किक्क खीणमनियट्टी। (कर्मस्तवाख्यः द्वितीय प्राचीन कर्मग्रन्थः-७) इति क्रमेण।
___ एतदेव भावयति- इहानिवृत्तिबादरः प्रथमं तावद् अप्रत्याख्यानावरणक्रोधादिचतुष्कप्रत्याख्यानावरणक्रोधादिचतुष्करूपं कषायाष्टकं युगपत् क्षपयितुमारभते। तेषु चार्द्धक्षपितेष्वेवातिविशुद्धिवशात्
सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिल्ले। ()
इति वचनाच्च अन्तराल एव स्त्यानर्द्वित्रिकम्, नरकद्विकम्, तिर्यग्द्विकम्, एकेन्द्रियादिजातिचतुष्टयम्, आतपम्, उद्योतम्, स्थावरम्, साधारणम्, सूक्ष्मं चेति षोडशप्रकृतीः क्षपयति प्रथमभागे। ततो द्वितीयभागे कषायाष्टकस्य क्षपितशेषमुच्छेदयति। ततस्तृतीयभागे नपुंसकवेदम्, चतुर्थभागे स्त्रीवेदम्, पञ्चमभागे हास्यरत्यरतिशोकभयजुगुप्सारूपं षट्कम्, षष्ठभागे पुंवेदम्, सप्तमभागे सज्वलनक्रोधम्, अष्टमभागे सज्वलन
१ अत्र पङ्क्तिद्वयप्रमाणः पाठोऽवाच्य आभाति ।
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207