SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् आहारोरलदुगदुग, इत्थीपुरिसूण हेउइगवन्ना । निरए मिच्छे साणे, उ मिच्छपणगूण छायाला ।।१४९।। अण-कम्मण-वेउव्वियमीसं चइऊण मीसए चत्ता । सवेउव्वि मीसकम्मा, बायाला सम्म नेरईए ।।१५०।। उरलदुगाहारदुर्ग, नपुवेयं चइय हेउबावन्नं । मिच्छसुरे साणे पुण, सगचत्ता मिच्छपणगूणा ।।१५१।। कम्मणऽणंत-वेउव्वियमिसूणा मीसयम्मि इगचत्ता । वेउव्वि मीसकम्मणजुत्ता तिगचत्त सम्मसुरे ।। १५२।। व्याख्या] सर्वा अपि गाथाः स्पष्टाः। नवरं योऽत्र देवनारकेषु पूर्वं च सझितिर्यड्मनुष्येषु अनाभोगिकमिथ्यात्वसद्भावो विहितः स तस्यैव अनाभोगिकमिथ्यात्वस्य द्वितीयव्युत्पत्त्यपेक्षया द्रष्टव्यस्तथाहि अणाभोगं एगिदियाईण वि। जम्हा आभोगो नाणं उवओगो भन्नइ। एयं केरिसं ? एयं वत्ति ? एसा पुण तेसिं नत्थि तेण तेसिं अणाभोगं मिच्छत्तं। अहवा सुद्धं परुवइस्सामि अणुवओगाओ असुद्धं परुवियंत पि अणाभोगं परेसिं मिच्छत्तकारणत्तेणं ति। (षडशीतिकचूर्णिः) तदेवम् अष्टानामपि कर्मणामविशेषेण बन्धजनकत्वात् सामान्यरूपा मूलहेतव उत्तरहेतवश्च प्रतिपादिताः। अथ ज्ञानावरणादिकाया एकैकस्याः प्रकृतेर्यथास्वं बन्धजनकाज्ञानप्रत्यनीकतादयो विशेषहेतवो द्वारगाथायामनुपात्ता अपि हेतुत्वसामान्येन विनेयानुग्रहाय शतकसूत्रवृत्तिभ्यां प्रदर्श्यन्तेपडणीयमंतराइय, उवघाए तप्पओसनिण्हवणे। आवरणदुगं भूओ, बंधइ अच्चासणाए य।। (बन्धशतकम्-१६) इह प्राकृतत्वादार्षत्वाच्च विभक्तिव्यत्ययादिना तात्पर्यव्याख्या क्रियते। तत्रावरणद्विकं ज्ञानावरणदर्शनावरणरूपम्। अत्र च ज्ञानस्य = मत्यादेर्शानिनां = साध्वादीनां ज्ञानसाधकस्य च पुस्तकादेः प्रत्यनीकतया = तदनिष्टाचरणरूपया ज्ञानावरणं कर्म भूयो = अतितीव्र बध्नातीति सण्टकः। तथा अन्तरायेण = भक्तपानवस्त्रोपाश्रयलाभनिवारणादिरूपेण, उपघातेन = निर्मूलतो विनाशस्वरूपेण, तत्प्रद्वेषेण = ज्ञानादिविषये आन्तराप्रीतिरूपेण, निह्नवेन = 'न मया तत्समीपेऽधीतमिदम्' इत्यादिरूपेण। अत्याशातनया च जात्यायुद्धट्टनादिहीलारूपया तीव्र ज्ञानावरणं बध्नातीति सर्वत्र द्रष्टव्यम्। एतच्चोपलक्षणमात्रमतो ज्ञानावर्णवादेन, आचार्योपाध्यायाद्यविनयेन, अकालस्वाध्यायकरणेन, काले च स्वाध्यायाविधानेन, प्राणिवधा-नृतभाषणस्तैन्याब्रह्मापरिग्रहरात्रिभोजनाविरमणादिभिश्च ज्ञानावरणं बध्नातीत्याद्यपि वक्तव्यमिति। एवं दर्शनावरणेऽपि वाच्यम्, नवरं दर्शनाभिलापो वाच्यः। तद्यथा- दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां दर्शनसाधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतया तदनिष्टाचरणरूपया दर्शनावरणं भूयोऽतितीव्र बध्नातीत्येवमिहापि सम्बन्धः। एवमन्तरायादयोऽपि हेतवस्तदुचितत्वेनोत्प्रेक्ष्य योजनीयाः। अत्राप्युपलक्षणमात्रममी ततोऽलसतया, स्वप्न(पन)शीलतया, निद्राबहुमानतो, दर्शनिनां दूषणग्रहणेन, श्रवणकर्तननेत्रोत्पाटननासाच्छेदनजिह्वाविकर्तनादिना प्राणिवधादिभिश्च दर्शनावरणं बध्नातीत्याद्यपि वाच्यमिति गाथार्थः। वेदनीयस्य द्विविधस्यापि बन्धहेतूनाहभूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो। बंधड़ भूओ सायं, विवरीए बंधए इयरं।। (बन्धशतकम्-१७, प्राचीनपश्चमकर्मग्रन्थ-१९)
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy