Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 73
________________ मन:स्थिरीकरणप्रकरणम् बेइंदियस्स दो णाणा कहं लब्भंति? भन्नइ, सासायणं पडुच्च। तस्सापज्जत्तयस्स दो णाणा लब्भंती त्ति। (प्रज्ञापना टीका) अतः सासादनभावे ज्ञानं श्रुतसम्मतमेव। परमेतत्कार्मग्रन्थिका न मन्यन्ते। ते ह्येवमाहुः- सासादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्यापि मलीमसत्वादज्ञानरूपतेति । तथा वैक्रिये आहारके च प्रारभ्यमाणे ताभ्यां सहौदारिकस्य मिश्रीभवनादौदारिकमिश्रं भवतीति। तथा चाह प्रज्ञापनाटीकाकार: 'यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो मनुष्यः सज्ञिपञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः निजजीवप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानादाय यावद्वैक्रियशरीरपर्याप्ता पर्याप्तिं न गच्छति तावदौदारिकस्य वैक्रियेण सह मिश्रताव्यपदेशः चौदारिकमिश्र इत्येवंरूपः, औदारिकस्य व्याप्रियमाणत्वेन प्रधानत्वात्। एवमाहारकेणापि सह मिश्रता द्रष्टव्या। आहारयति च तेनैवेति तस्यैव व्यपदेश इति'। ___ आहारयति चेत्यादि वाक्यस्यायमर्थः- आहारकशरीरयोग्यान् पुद्गलान् आहारयति गृह्णाति तेनैवेति औदारिककाययोगेन ततस्तस्यैवेति औदारिकस्य व्यपदेशः औदारिकमिश्र इत्येवंरूप इति। परित्यागकाले च वैक्रियस्याहारस्य च यथाक्रमं वैक्रियमिश्रं आहरकमिश्रं च। उक्तं च- प्रज्ञापनाटीकायामेवाहारकमधिकृत्य 'यदा आहारकशरीरीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा आहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावात् न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति आहारकमिश्रशरीरकायप्रयोग इति'। तच्चेत्थम्-वैक्रियाहारकारम्भकाले औदारिकमिश्रं सूत्रेऽभिहितमपि कार्मग्रन्थिकैर्येनाभिप्रायेणाभ्युपगम्यते सोऽभिप्रायो बहश्रुतभ्योऽवसेयः। तथा न = नैवैकेन्द्रियेषु। सासाणो त्ति। सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत। न चोच्यते, किन्तु विशेषतः प्रतिषिध्यते। तथाहिएगिंदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणीति। (भगवतीशतक-८३.२, सूत्र-२७) तदेवं एकेन्द्रियाणां ज्ञाननिषेधेन सासादनभावोऽपि निषिद्धो द्रष्टव्यो, यतो द्वीन्द्रियादिषु यो ज्ञानभावः स सास्वादनाव्यभिचार्येव, परमसावपि कार्मग्रन्थिकै द्रियते। सोऽप्यनादरस्तद्गम्य एवेति। तथा नेहाहीत्यादि। तदेवं सासादनभावे ज्ञानं, वैक्रियाहारकयोः प्रारम्भे औदारिकमिश्रम्, एकेन्द्रियेषु सासादननिषेध इत्यतेत्रितयं सूत्राभिमतमपि न नैवेह कर्मविचारे कार्मग्रन्थिकैरधिकृतमभ्युपगतमिति' गाथार्थः ।।२४।। अथ तनुद्वारम्। तनवश्च किं नामधेयाः ? कति च ? इति किञ्चिदूनगाथापूर्वार्द्धनाह [मूल] उरलविउव्वाहारगतेयसकम्मा तणु त्ति नरि पण वि। (२५ पू.) व्याख्या] तत्र तनोति विस्तारयति जीवः स्वप्रदेशान् सङ्ख्येयानसङ्ख्येयान् यस्यां प्रतिप्रदेशं सा तनुः = १. ग्रन्थकर्तृ: टीप्पणी-षडशीतिबृहद्वृत्तिरिति।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207