Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 118
________________ मन:स्थिरीकरणप्रकरणम् ६ व्याख्या] इह द्वित्रिचतुःपञ्चेन्द्रियाः वसा अभिधीयन्ते। गतित्रसास्तु तेजोवायवः। तथाहित्रसनामकर्मोदयात् त्रस्यन्ति = उष्णाद्यभितप्ताः तस्मादुद्विजन्ते च्छायाद्यभिसर्पन्तीति सा द्वीन्द्रियादयः। तेजोवायूनां तु स्थावरनामोदये चलनं स्वाभाविकमेव, न तूष्णाद्यभितापेन द्वीन्द्रियादीनामिव विशिष्टमिति, अतस्ते गत्या = चलनमात्रेण, न तु वसनामकर्मोदयेन त्रसाः गतित्रसाः। ते चात्र पूर्वोक्तमेव नवोत्तरं शतं नरत्रिकोच्चैर्गोत्ररहितं सत् पञ्चोत्तरम् उत्तरप्रकृतिशतं बध्नन्तीति सण्टङ्कः। तथा तहा विगलेत्यादि सुगमं च। नवरं दोवि त्ति नवोत्तरशतचतुर्नवतिरूपे द्वे अपि पदे यथा पूर्वमेकेन्द्रियेषूक्ते तथात्रापि वाच्ये इति।।१०५।। तथा [मूल] तित्थाहारदुगुज्झिय, सतरसयं अमणमिच्छ अह साणा । मिच्छंतसोल सुरनरतिरियाउं मुत्तु अडनवई ।।१०६।। नणु साणगुणे आउगबंधे सत्थंतरे स किं नेह। भन्नइ एए साणा, भवाइए नाउ बंधंसि ।।१०७।। व्याख्या] ननु अणुबंधोदयमाउगबंधं कालं च सासणो कुणइ। उवसम्मदिट्ठी चउण्हमेक्कंपि नो कुणइ।।() इत्यादिना शास्त्रान्तरेषु सास्वादनभावे आयुर्बन्धोऽभ्युपगतोऽपि किमित्यत्र कम्माभूदेत्यादि गाथात्रयेऽपि (१०४/१०५/१०६) सास्वादनवतां भूदगतरुविकलामनसामसौ निषिध्यत ? इत्यत्रोच्यते, एते एकेन्द्रिया विकलाः अमनसश्च पारभविकेनात्यन्ताल्पकालभाविना सास्वादनभावेन वर्तमानभवानामादिक्षणेष्वपर्याप्तावस्थायामेव साण त्ति। सास्वादनगुणोपेता नाउ बंधंसि त्ति। न पुनस्तेषां पर्याप्तावस्थायां आयुर्बन्धांशे = आयुर्बन्धविभागे, भवति भागादौ तत्सद्भाव इति। तस्माद्युक्त एव निषेधः। किञ्च, येयमेकेन्द्रियेषु सास्वादनभावनिषेधयुक्तिः सा कर्मग्रन्थाभिप्रायेणैव। यत आगमे- उभयाभावो पुढवाइएसु त्ति ( ) वचनात् सर्वथाप्येकेन्द्रियेषु सास्वादनं निषिद्धमेव। यस्तु सास्वादनभावे आयुर्बन्धोऽभाणि स सज्ञिपञ्चेन्द्रियाणां पर्याप्तानां भवत्रिभागादिके आयुर्बन्धकाले सास्वादनवतां सतां बोद्धव्य इति।।१०६।।१०७।। तथा[मूल] तित्थाहारदुगविणा, सतरसयं सन्निणो तिरियमिच्छा । साणा एगहियसयं, मिच्छंता सोल मुत्तूणं ।।१०८।। साणंतं पणवीसं, उसभोरलदुगसुराउ मणुयतिगं । मुत्तु गुणसयरि मीसा, ससुराउं सत्तरं सम्मा ।।१०९।। व्याख्या] गाथे सुगमे।।१०८।।१०९।। [मूल] बीयकसाए वज्जिय, छसट्ठि देसा तिरिव्व गुण पंच । मणुए वि नवरि तित्थं, अजए देसे य खिव अहियं१ ॥११०।। व्याख्या] तिरिव्वेत्यादि। यथा तिरश्चां गुणपञ्चकमुक्तं मनुष्याणामपि तत्तथैव वक्तव्यम्। अयमभिप्रायःयका यावन्त्यश्च तिरश्चां गुणपञ्चके प्रकृतय उक्ता मनुष्यगुणपञ्चकेऽपि ता एव तथैवावगन्तव्या इति। नवरम् अयते देशे च तीर्थकरनामकर्माधिकं क्षिप, ततो लब्धमिदम्- मनुष्याणामपि मिथ्यादृष्टिगुणे सप्तदशोत्तरं शतम्, सास्वादने १ मूलेऽधिकः पाठः दृश्यते । नराणां मि ११७ सा १०१ मि ६९ अ ७१ दे ६७ ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207