Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 114
________________ मन:स्थिरीकरणप्रकरणम् अथ नारकदेवयोर्मध्यमाबाधा जघन्यायुर्बन्धरूपं चतुर्थं भङ्गं मध्यमाबाधा मध्यमायुर्बन्धरूपं पञ्चमं च भाग(भङ्ग)माह मूल] नारयसुरा जहन्नं, परभव आउं करिति अंतमुहू । गुरुयं पि पुव्वकोडिं, दुविहे वि अबाह छम्मासा ।।९४।। व्याख्या] सुगमा। केचित् पुनर्देवनारकयोः परभवायुर्बन्धे अबाधामन्तर्मुहूर्तरूपामपीच्छन्ति इति तेषां मते देवनारकाणां प्रथमोऽपि भङ्गः स्यादिति उदाहृताः प्रथमचतुर्थपञ्चमाष्टमनव(म)भङ्गकाः। अथ यदुक्तं- मुणे सयं चउरो ते। इति। (गा.८८) इमे क्षुल्लकभवग्रहणी(णे) अनियतं परभवायुर्बध्नन्ति द्वितीयो भङ्गः। अन्तर्मुहूर्तायुस्तन्दुलमत्स्यस्त्रयस्त्रिंशदतराणि बध्नातीति तृतीयः। मध्यमायुस्तिर्यङ्मनुष्यो वा त्रयस्त्रिंशदतराणि बध्नातीति षष्ठः। पूर्वकोटित्रिभागुशेषायुः तिर्यङ्मनुष्यो वा जघन्यमन्तर्मुहूर्तं बध्नातीति सप्तमः।।९४।। अथायुर्बन्धगतमेव किञ्चिद्विशेषमाह [मूल] आउसि जइवीय पायं, सुव्वइ पडिवयणमुदयमित्तेणं । ___ तहवि य पन्नवणाए, अबाहउदएहिंतो इह वि ।।९५।। व्याख्या] ननु आयुषि कियती परभवबन्धस्थितिरिति प्रश्ने परभवगतानां य एव आयुःकर्मदलिकान् भवनकालस्तेनैवैकेनाबाधारहितेन प्रायेण स्थानस्थानेषु प्रतिवचनं श्रूयते। तद्यथा- पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियासज्ञिसज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्या सर्वेऽपि परभवायुर्जघन्यमन्तर्मुहूर्तं बध्नन्ति, उत्कृष्टं तु क्रमेण पृथिव्यादयो अष्टौ पूर्वकोटिम्, असझितिर्यञ्चस्तु तिर्यङ्मनुष्यनारकदेवायुषां पल्यासङ्ख्येयभागम्, सञ्जितिर्यञ्चो मनुष्याश्च तिर्यङ्मनुष्येषु पल्यत्रयम्, नारकदेवेषु पुनर्जघन्यतो दशवर्षसहस्राणि उत्कृष्टतस्तु त्रयस्त्रिंशत्सागराणीति, नारकदेवाः तिर्यङ्मनुष्येषु जघन्यतो अन्तर्मुहूर्तम् उत्कृष्टं तु पूर्वकोटिम्। एते च नारकदेवेषु स्वभावादेव नोत्पद्यन्त इति तदायुषी न बध्नन्ति इति। तदेवम् इयतापि यदि साध्यसिद्धिः तत्कथमत्र पृथिव्यादीनां देवान्तानामबाधाकालोदय कालद्वयात्मक एव परभवायुस्थितिबन्धः प्रादर्शि ? सत्यमेतत्, परं प्रज्ञापनायां सर्वोऽपि परभवायुस्थितिबन्धाबाधोदयकालद्वयात्मक एवाभ्यधायि तत इहापि प्रकरणे तथैवासौ प्रत्यपादीति। तथा च त्रयोविंशतिपदद्रितीयोद्देशके कर्माष्टकस्यापि जघन्योत्कष्टस्थितिबन्धप्रतिपादि(द)काः ओघ-एक-द्रि-त्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रिय-सज्ञिपञ्चेन्द्रियाश्रिताः सप्त दण्डकाः सन्ति। तत्र इह प्रस्तुते एकस्यैवायुःकर्मणो दण्डकसप्तकाश्रिते जघन्योत्कृष्टस्थिती प्रदर्श्यते। तत्रौघदण्डके नेरइयाउयस्स णं भंते ! केवइयं कालं ठिइ पन्नत्ता? गो[यमा]! जहण्णेणं दसवाससहस्साई अंतोमुत्तमब्भहियाई। उक्कोसेणं तेतीसं सागरोवमाई पुव्वकोडितिभागमब्भहियाई। तिरिक्खजोणियाउयस्स पुच्छा गो[यमा]! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडितिभागमब्भहियाई। एवं मणुस्साउयस्स वि। देवाउयस्स जहा नेरड्याउयस्स ठिइ। (प्रज्ञापना पद २३.२, सू.१७०१) इत्यादि। एकेन्द्रियदण्डके तिरिक्खजोणियाउयस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडिं सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति। एवं मणुयाऊयस्स वि। (प्रज्ञापना पद २३.२, सू.१७१०) द्वीन्द्रीयदण्डके।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207